सर्वबीजान्विते चैव सितवस्त्रावगुण्ठिते
विधिना पूजयित्वा चकुर्याज्जागरणं व्रती
तत्कुंभक्रोडसंयुक्तं सनैवेद्यपरिच्छदम्
एवं कृते वरारोहे न भूयो जायते क्वचित्
तत्सर्वं नाशमायाति तमः सूर्योदये यथा
या सा कृता त्वया पूर्वमासीद्देव्यन्यजन्मनि
भर्त्तुस्तव च पुत्रस्य सर्वदा सुखदायिनी
तदा प्रीता गमिष्यामि तद्विष्णोः परमं पदम्
तस्य पावनहेतुं च तुरीयांशं प्रयच्छ मे
कृमियोनिशतं गत्वा पुल्कसी जायते तु सा
या न यच्छति दुर्बुद्धिः काष्ठीला जायते ध्रुवम्
तुरीयांशमितं पुण्यं यद्यस्ति मयि ते घृणा
पुण्यं दत्तवती तस्यै पाणौ वारि प्रगृह्य च
तत्तुरीयांशपुण्येन काष्ठीलेयं विमुच्यताम्
एवमुक्ते तु वचने मया विद्युत्समप्रभा
पतिर्हि दैवतं लोके वञ्चनीयो न भार्यया
सा त्वं ब्रूहि प्रदास्यामि भर्तुरर्थे तवेप्सितम्
किमन्यद्दैवतं लोके स्त्रीणामेकं पतिं विना
कल्पकोटिशतं साग्रं विष्णुलोके महीयते
पतिं ददौ नैव च याचिता धनं तेनैव पापेन बभूव कीटा
ज्ञात्वा हितं तथ्यमिदं स्वभर्तुर्ददामि सर्वं च गृहाण सुभ्रु
उवाच तत्परा स्वीये कार्ये मोहकरण्डिका
भर्तुरर्थे प्रदात्री च धनजीवितयोरपि
देहि पुत्रशिरोः मह्यं यदिष्टं हृदयाधिकम्
तदा स्वहस्ते संगृह्य खड्गं राजा पतिस्तव
अजातश्मश्रुकं चैव कुण्डलाभ्यां विभूषितम्
एतद्वा कुरुतद्भद्रे यदान्नं न भुनक्ति च
तच्छ्रुत्वा वचनं तस्या मोहिन्याः कटुकाक्षरम्
संध्यावली ततो धैर्यमास्थाय वरवार्णिनी
श्रूयन्ते हि पुराणेषु गाथाः सुभ्रु समीरिताः