देवैस्तेजः परिक्षिप्तं माघमासे स्वकं जले
नेदृशी संगरे शूरैर्गतिः प्राप्येत सौख्यदा
सरित्तडागवापीषु स्नाने सत्तममीरितम्
न सौख्यैर्लभ्यते पुण्यं दुःखैरेवाप्यते तु तत्
होमार्थं सेवनं वह्नेर्न च शीतादिहानये
आच्छादिते घनैर्व्योम्नि ह्युद्गमिष्यन्तमर्थयेत्
वायुना ताडितं रात्रौ स्नाने गङ्गासमं विदुः
तन्नास्ति पातकं यत्तु माघस्नानं न शोधयेत्
जीवता भुज्यते दुःखं मृतेन बहुलं सुखम्
अहन्यहनि दातव्यास्तिलाः शर्करयान्विताः
यावकैश्चैव होतव्या गव्यसर्पिः समन्वितैः
सूर्यो मे प्रीयतां देवो विष्णुमूर्तिर्निरञ्जनः
त्रिंशच्च मोदका देयास्तिलान्नाः शर्करामयाः
तांबूलादीनि भोग्यानि भक्त्यादकद्याद्विधानवित्
स्नायादावाह्य तीर्थानि गङ्गादीन्य कर्मण्डलात्
त्वत्तेजसा हतं चास्तु तत्तु पापं सहस्रधा
परिपूर्णं कुरुष्वेदं माघस्नानं ममाच्युत
तीर्थस्नानादियात्स्वर्गं माघस्नानात्परं पदम्
रविवारेण संयुक्ता महापातकनाशिनी
विनिर्दहति पापानि कुनृपो विषयं यथा
अधर्मस्तु यथा धर्मं कुमन्त्री नृपतिं यथा
यथा हन्त्यनृतं सत्यं वादस्संवादमेव च
यथा रसा महारोगाञ्छ्राद्धं संकेत एव च
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः
समवेतानि चैतानि न शामयति पुष्करम्
प्रभासो न गया देवि न रेवा न सरस्वती
न सरांसि नदाश्चान्ये होमदानतपांसि च
पापसंघविनाशाय मुक्त्वैकं हरिवासरम्
एकतः पृथिवीदानमेकतो हरिवासरम्
तस्मिन्वराहवपुषं कृत्वा देवं तु हाटकम्