आहूता स्वामिना गच्छ सम्मानेन तदन्तिकम्
सा तु ध्वाङ्क्षी भवेत्पुत्रि जन्मानि दश पञ्च च
दोलामारोप्य गच्छेति प्रोचुः स्निग्धा मुहुर्मुर्हुः
जग्मुर्महोदयपुरं यत्र तिष्ठति मे पतिः
आसनीयैश्च भोज्यैश्च धनैर्वस्त्रैर्युतं ततः
प्रीत्या च भक्त्या कुरुतां प्रणतिं मम सुन्दरि
भर्तृवाक्येन संप्रीता स्नात्वाभुजं तथाहृता
परिष्वज्य चिरं दोर्भ्यां पर्यङ्के संन्यवेशयत्
भक्त्या युवाभ्यां कर्तव्यमस्याश्चरणसेवनम्
पत्युर्वाक्यात्ततस्ताभ्यां गृहीतौ चरणौ मम
ततः प्रेष्यान्समाहूय भर्ता मे वाक्यमब्रवीत्
सुतामुद्वहतो राज्ञो यच्च लब्धं मयाखिलम्
इयं हि स्वामिनी प्राप्ता तस्य वित्तस्य किङ्कराः
भर्ता समर्पयामास प्रीत्या युक्तो ऽखिलं तदा
उभयोस्तत्र पश्यन्त्यो राक्षसीराजकन्ययोः
तद्दृष्ट्वा चाद्भुतं भर्तुर्देहवित्तसमर्पणम्
छिन्ना गौरिव खङ्गेन गताः प्राणा ममाभवन्
तामतीत्य सुदुःखार्ता काष्ठीला चाभवं शुभे
या भर्तुर्नापयेद्वित्तं जीवितं च शुभानने
एवं ज्ञात्वानिशं रक्षेत्पत्युर्वित्तं च जीवितम्
पतिर्माता पिता वित्तं जीवितं च गुरुर्गतिः
विष्णोः पदं वित्तशरीरलुब्धा प्रयाति यामीं च कुयोनिपीडाम्
सन्ध्यावली नाम भृशं तामुवाच ह सादरम्
कथं दृष्टा मया त्वं च यास्यन्ती कुत्सितां गतिम्
तन्मे वद विशालाङ्गे त्वां दृष्ट्वा दुःखिता ह्यहम्
शरीरं तव संवीक्ष्य तया मे जायते हृदि
तथापि नैव मुच्येयं सद्यः कुत्सितयोनितः
तन्निर्दिशामि सुमहद्गतिदं त्वं निशामय
यस्मिन् क्रोशन्ति पापानि ब्रह्महत्यादिकानि च
दुर्ल्लभं चोषसि स्नानं दुर्लभं कृष्णसेवनम्