सापत्नभावं त्यक्त्वा तु सुतां मे परिपालय
पुरस्य विषयस्यापि स्वामिनी त्वं न संशयः
एतच्छ्रुत्त्वा तु वचनं सुद्युम्नस्य निशाचरी
उवाच च धरापालं प्रदानाय कृतोद्यमम्
तस्माद्द्वितीया भार्येयं भवत्वस्य द्विजन्मनः
सर्वैश्च नागरैः सार्द्धं फाल्गुने धवले दले
नटनर्तकयुक्तेन गीतवाद्येन भूरिणा
एवं प्रकुर्वते तुभ्यं सदा क्षेमकरी ह्यहम्
तच्छ्रुत्वा वचनं तस्याः सुद्युम्नो नृपतिस्तदा
राजकन्यां द्विजश्रेष्ठ गृह्योक्तविधिना शुभाम्
राक्षस्या वचनेनेह परिणीय नृपात्मजाम्
आरुह्य करिणीरूपां राक्षसीं क्षणमात्रतः
धनरत्नसमायुक्तो भार्याद्वयसमन्वितः
बहुशो भर्त्सिता रूक्षैर्वचनैर्मर्मभेदिभिः
यस्त्वया निर्द्धनः पूर्वं परित्यक्तः सुदीनवत्
कान्तार्जितानि सुभगे स्थिराणीति निगद्यते
भविष्यति प्रवेशो ऽपि दुष्करस्तस्य वेश्मनि
भविष्यति दुराचारे सुखदं न कदाचन
त्वां स्नेहहीनचित्तस्तु न कदाचिन्मिलिष्यति
दंपकत्योर्मिलनं लोके वैकल्यकरणं महत्
अधोमुख्यस्रुपूर्णाक्षी बभूवाहं सुदुःखिता
न दत्तं कङ्कणं पाणेर्न दत्तं कटिसूत्रकम्
धनजीवितयोः स्वामी भर्ता लोकेषु गीयते
कथं यास्यामि तद्वेश्म कथं संभाषये पुनः
एवं विचिंये यादद्धृदयेन विदूयता
छत्रेण शशिवर्णेन शोभमाना सुकोमला
ते समागत्य पुरुषाः प्रोचुर्मामसकृच्छभे
धनरत्नयुतो भर्ता सद्धिभार्यः समागतः
प्रेषिताः सत्वरं पत्या संस्थितां पितृवेश्मनि
नैवोत्तरमदां तेभ्यः किञ्चिन्मौनं समास्थिता