पापानां यातनानां च धर्माणां चापि भूपते
एतेषां सर्वपापानां धर्मशास्त्रविधानतः
प्रायश्चित्तानि कार्याणि समीपे कमलापतेः
गङ्गा चतुलसी चैव सत्सङ्गो हरिकीर्त्तनम्
विष्ण्वर्पितानि कर्माणि सफलानि भवन्ति हि
नित्यं नैमित्तिकं काम्यं यच्चान्यन्मोक्षमाधनम्
हरिभक्तिः परा नृणां सर्वं पापप्राणाशिनी
तामसै राजसैश्वैव सात्त्विकैश्च नृपोत्तम
सा तामस्यधमा भक्तिः खलभावधरा यतः
नारायणं जगन्नाथं तामसी मध्यमा तु सा
सा भक्तिः पृथिवीपाल तामसी चोत्तमा स्मृता
श्रद्धया परया युक्तः सा राजस्यधमा स्मृता
अर्चयेत्परया भक्त्या सा मध्या राजसी मता
सा राजस्युत्तमा भक्तिः कीर्तिता पृथिवीपते
श्रद्धया परयोपेतः सा सात्त्विक्यधमा स्मृता
श्रद्धया संयुतो भूयः सात्त्विकी मध्यमा तु सा
भक्तीनां प्रवरा सा तु उत्तमा सात्त्विकी स्मृता
तन्मयत्वेन संतुष्टः सा भक्तिरुत्तमोत्तमा
इति यः सततं पश्येत्तं विद्यादुत्तमोत्तमम् तत्ते वक्ष्यामि सुमते सावधानं निशामय
तत्रापि सात्त्विकी भक्तिः सर्वकामफल प्रदा
स्वकर्मणो विरोधेन भक्तिः कार्या जनार्दने
न तस्य तुष्यते विष्णुराचारेणैव तुष्यते
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः
सदाचारविहीनानां धर्मा अप्यसुखप्रदाः
यत्तु पृष्टं त्वया भूयस्तत्सर्वं गदितं मया
नारायणमणीयांसं सुखमेष्यसि शाश्वकतम्
द्वयोरन्तरदृग्याति नरकारन्कोटिशः खलः
भेदकृद्दुःखमाप्नोति इह लोके परत्रघ च
वसन्ति नरके ते तु राजंस्तव पितामहाः
गङ्गा सर्वाणि पापानि नाशयत्येव भूपते