समायातात्र भूपाल मामत्तुं तव मन्दिरम्
तस्मादिमां पूजयस्व सत्कृत्याग्रजसंयुताम्
अनेनैकासनगता जाता भर्ता स मे भवत्
नान्य इत्थं पुराणेषु श्रूयते ह्यागमेष्वपि
धर्मत स्तेन मद्भर्ता भवेदेषा मतिर्मम
देहि विप्राय मां तात पितमन्यं वृणे न च
सांत्वयामास तन्वङ्गीं राक्षसीं प्रश्रयानतः
यदर्थं निहतः कान्तस्त्वया पूर्वतरः सति
इममिच्छति भर्तारं यो ऽयं भर्ता कृतस्त्वया
अनुमोदय साहाय्ये सुतां मम सुलोचने प्रतिपन्ने तु वचसि राज्ञा तुष्टा तु राक्षसी
सापत्नभावं त्यक्त्वा तु सुतां मे परिपालय
पुरस्य विषयस्यापि स्वामिनी त्वं न संशयः
एतच्छ्रुत्त्वा तु वचनं सुद्युम्नस्य निशाचरी
उवाच च धरापालं प्रदानाय कृतोद्यमम्
तस्माद्द्वितीया भार्येयं भवत्वस्य द्विजन्मनः
सर्वैश्च नागरैः सार्द्धं फाल्गुने धवले दले
नटनर्तकयुक्तेन गीतवाद्येन भूरिणा
एवं प्रकुर्वते तुभ्यं सदा क्षेमकरी ह्यहम्
तच्छ्रुत्वा वचनं तस्याः सुद्युम्नो नृपतिस्तदा
राजकन्यां द्विजश्रेष्ठ गृह्योक्तविधिना शुभाम्
राक्षस्या वचनेनेह परिणीय नृपात्मजाम्
आरुह्य करिणीरूपां राक्षसीं क्षणमात्रतः
धनरत्नसमायुक्तो भार्याद्वयसमन्वितः
बहुशो भर्त्सिता रूक्षैर्वचनैर्मर्मभेदिभिः
यस्त्वया निर्द्धनः पूर्वं परित्यक्तः सुदीनवत्
कान्तार्जितानि सुभगे स्थिराणीति निगद्यते
भविष्यति प्रवेशो ऽपि दुष्करस्तस्य वेश्मनि
भविष्यति दुराचारे सुखदं न कदाचन
त्वां स्नेहहीनचित्तस्तु न कदाचिन्मिलिष्यति
दंपकत्योर्मिलनं लोके वैकल्यकरणं महत्