मृत्युं प्रात्युं नरः कामं कृतकृत्यो भवेद्ध्रुवन्
भोगिनीमपि मोक्षाय किं पुनर्व्रतधारिणाम्
वियोजिता तु या पूर्वं तेन दुष्टेन रक्षसा
एष प्रभावो ऽपि हितः क्षेत्रस्यास्य द्विजोत्म
भूतव्यभविष्याणि ज्ञानाज्ञानकृतानि च
यस्यां मृता दुःखमनन्तमुग्रं भुञ्जन्ति मर्त्या यमयातनां नो
पृष्ठात्करोणुरूपिण्याः सकन्यो ऽवातरद्द्विजः
क्षपाचरी क्षपानाथवक्त्रा पीनोन्नतस्तनी
बाह्यरक्षास्थित प्राप्तं पुरपालमुवाच ह
ब्रूहि मां समनुप्राप्तां रत्नशालां पुरा हृताम्
तल्पस्था रक्षसा रात्रौ स्वपुरस्था हृता द्विज
समाश्वसिहि शोकं त्वं मा कृथा मत्कृते क्वचित्
तव कीर्तिकरी तद्वन्मातुः सौशील्यसूचिका
अबाहुरिति विख्यातः प्राप्तः सुद्युम्रसन्निधौ
राजन्नुपागता नष्टा दिहिता तव मानद
पुरबाह्ये स्थिता दृष्टा मया ज्ञाता न चाभवत्
अविप्लुताहं वदति मां जानातु समागताम्
तदद्भुतं वचः श्रुत्वा पुरपालस्य तत्क्षणात्
स तु गत्वा पुराद्ब्राह्ये गङ्गातीरे व्यवस्थिताम्
सहजे नैव वेषेण भूषितां भूषणप्रियाम्
दूराद्दृष्ट्वान्तिकं गत्वा पर्यष्वजत भूपतिः
ततश्च मात्रा संगम्य हृष्टया हर्षितान्तरा
सुप्ताहं रत्नशालायां सखीभिः परिवारिता
चिन्तयत्नी भर्तृयोगं निशीथे रक्षसा हृता
नानारत्नमये तत्र गुहायां स्थापिता ह्यहम्
तस्य भार्या त्वियं सुभ्रूर्या तिष्ठति सुमध्यमा
अनया बुद्धियोगेन शक्त्या शक्रस्य भूपते
पुरैव मम तं शैलं प्राप्तो देवेन भूसुरः
विप्रेण संविदं कृत्वा दांपत्ये निजकर्मणा
एवं कृत्वा पतिं विप्रं हस्तिनीरूपधारिणी