भवतरणिवहित्रपादपद्म प्रकटैश्वर्य पुराण पूर्णबाहो
तव वरद वरेण्यमङ्घ्रियुग्मं शरणं प्राप्तमघार्दितं प्रपाहि
नहि मम गतिदं पुराणपुंसो ऽन्यदिति प्रार्थनया प्रसीदऽमेद्य
आविर्बभूव सहसा माधवो भक्तवत्सलः
पुनरुत्थाय विप्रेन्द्र ननाम विधृताञ्जलिः
वरं वृणु प्रदास्ये ऽहं संतुष्टः स्तोत्रतस्तव
पीडितात्मा जगादेदं भुक्तिमुक्तिप्रदं हरिम्
त्वत्क्षेत्रसीमाबाह्यस्था ब्रह्महत्या यदीक्ष्यते
मम निर्गमने ब्रह्महत्या मां पुनरेष्यति
इत्युक्त्वा ह्यभवत्तूष्णीं देवदेवं वृषध्वजः
ततः प्रभृति विप्रेन्द्र शैवं क्षेत्रं निगद्यते
कृपया संपरीतस्य माधवस्य द्विजोत्तम
माधवस्याज्ञया तत्र सस्नौ देवो वृषध्वजः
कपालमोचनं नाम तत्तीर्थं ख्यातिमागतम्
भक्तिभावेन शंभुस्तु निबद्धस्तत्र संस्थितः
सूर्यायुतसमप्रख्य दिगंबरनिषेवितम्
यैर्विघ्नैरभिभूतास्तु स्तुत्वा विष्णुं शिवार्चकाः
शिवस्य चिन्तनाद्विप्र शैवाः सर्वे निराकुलाः
बहुपुण्ययुताः संतो निवसंत्तयत्र नीरुजः
नात्र स्नानं प्रशंसंति न जपं न सुरार्चनम्
मृत्युं प्रात्युं नरः कामं कृतकृत्यो भवेद्ध्रुवन्
भोगिनीमपि मोक्षाय किं पुनर्व्रतधारिणाम्
वियोजिता तु या पूर्वं तेन दुष्टेन रक्षसा
एष प्रभावो ऽपि हितः क्षेत्रस्यास्य द्विजोत्म
भूतव्यभविष्याणि ज्ञानाज्ञानकृतानि च
यस्यां मृता दुःखमनन्तमुग्रं भुञ्जन्ति मर्त्या यमयातनां नो
पृष्ठात्करोणुरूपिण्याः सकन्यो ऽवातरद्द्विजः
क्षपाचरी क्षपानाथवक्त्रा पीनोन्नतस्तनी
बाह्यरक्षास्थित प्राप्तं पुरपालमुवाच ह
ब्रूहि मां समनुप्राप्तां रत्नशालां पुरा हृताम्