द्वारस्थो देहि भिक्षां मे विष्णो इत्यवदन्मुहुः
गृहाण भिक्षामित्युक्त्वा प्रददौ दक्षिणं करम्
प्राहरद्दक्षिणं पाणिं त्रिशूलेन द्विजोत्तम
प्रस्थद्वादशहस्ताश्च निर्गताश्चित्रवर्णिकाः
द्वितीया तन्मुखे प्राप्ता पयस्याथ तृतीयका
ता धारास्त्रीणि वर्षाणि संसेव्य विधिवद्धरः
तत्र गत्वा हरः स्थाणुर्भूतस्तत्र पपात च
वर्षत्रये गते तत्र क्षतार्द्धाङ्गो विनिःसृतः
ततस्तुष्टो जगन्नाथो वरं तस्मै ददौ तु सः
ततो हरिं नमस्कृत्य परीत्य बहुधा तथा
अविमुक्तस्य सीमायां प्राविशद्वीक्ष्तय धूर्जटिः
तुष्टाव प्रयतो भूत्वा माधवं वन्द्यमीश्वरम्
मधुमथन नृसिंह पीतवासो गरुडाधिष्ठित माधवादिदेव
सुरवरकरुणार्णवार्तिनाशिन्नलिनाक्षाधिपते विभो परेश
कलिकलुषहराङ्घ्रिपद्मयुग्म गृणदात्मप्रद कूर्म कश्यपोत्थ
भवभयहर भक्तवश्य गोप प्रणत्तोद्धारक पुण्यकीर्तिनाम्
कमलकर कुशेशया धिवास प्रियकामोन्मथन त्र्यधीशवन्द्य
हलधर दुरितापह प्रणम्य त्रिगुणव्याप्त जगत्त्रिकालदक्ष
रविशशिनयन प्रगल्भचेष्ट प्रधुतध्वान्त नवांबुदाभ मेश
अघबकवृषकेशिपूतनान्त त्रिशिरोवालिदशास्यभेदकारिन्
भवतरणिवहित्रपादपद्म प्रकटैश्वर्य पुराण पूर्णबाहो
तव वरद वरेण्यमङ्घ्रियुग्मं शरणं प्राप्तमघार्दितं प्रपाहि
नहि मम गतिदं पुराणपुंसो ऽन्यदिति प्रार्थनया प्रसीदऽमेद्य
आविर्बभूव सहसा माधवो भक्तवत्सलः
पुनरुत्थाय विप्रेन्द्र ननाम विधृताञ्जलिः
वरं वृणु प्रदास्ये ऽहं संतुष्टः स्तोत्रतस्तव
पीडितात्मा जगादेदं भुक्तिमुक्तिप्रदं हरिम्
त्वत्क्षेत्रसीमाबाह्यस्था ब्रह्महत्या यदीक्ष्यते
मम निर्गमने ब्रह्महत्या मां पुनरेष्यति
इत्युक्त्वा ह्यभवत्तूष्णीं देवदेवं वृषध्वजः