तत्फलं भुङ्क्ष्व सर्ंवज्ञ कियत्कालं कृतं स्वयम्
नाभुक्तं क्षीयते कर्म ह्यपि जन्मशतैः प्रिय
प्राणा विकलतां यान्ति मम त्वद्दुःखदर्शनात्
न तानि ब्रह्महत्यायाः समानीति मतिर्मम
ब्रह्महत्याभिभूतस्तु क्षणं स्थातुं न च क्षमः
लेलिहाना सुरेशान ग्रहीतुं त्वानुधावति
अटनीयं हितार्थाय पापनाशाभिकाम्यया
प्रक्षालयन्करं वामं भिक्षां गृह्णन्कपालके
इत्युक्तो विष्णुना विप्र स्थाणुः सर्वगतो ऽभवत्
वर्षत्रयं भ्रमित्वा तु प्राप्तो बदरिकाश्रमम्
द्वारस्थो देहि भिक्षां मे विष्णो इत्यवदन्मुहुः
गृहाण भिक्षामित्युक्त्वा प्रददौ दक्षिणं करम्
प्राहरद्दक्षिणं पाणिं त्रिशूलेन द्विजोत्तम
प्रस्थद्वादशहस्ताश्च निर्गताश्चित्रवर्णिकाः
द्वितीया तन्मुखे प्राप्ता पयस्याथ तृतीयका
ता धारास्त्रीणि वर्षाणि संसेव्य विधिवद्धरः
तत्र गत्वा हरः स्थाणुर्भूतस्तत्र पपात च
वर्षत्रये गते तत्र क्षतार्द्धाङ्गो विनिःसृतः
ततस्तुष्टो जगन्नाथो वरं तस्मै ददौ तु सः
ततो हरिं नमस्कृत्य परीत्य बहुधा तथा
अविमुक्तस्य सीमायां प्राविशद्वीक्ष्तय धूर्जटिः
तुष्टाव प्रयतो भूत्वा माधवं वन्द्यमीश्वरम्
मधुमथन नृसिंह पीतवासो गरुडाधिष्ठित माधवादिदेव
सुरवरकरुणार्णवार्तिनाशिन्नलिनाक्षाधिपते विभो परेश
कलिकलुषहराङ्घ्रिपद्मयुग्म गृणदात्मप्रद कूर्म कश्यपोत्थ
भवभयहर भक्तवश्य गोप प्रणत्तोद्धारक पुण्यकीर्तिनाम्
कमलकर कुशेशया धिवास प्रियकामोन्मथन त्र्यधीशवन्द्य
हलधर दुरितापह प्रणम्य त्रिगुणव्याप्त जगत्त्रिकालदक्ष
रविशशिनयन प्रगल्भचेष्ट प्रधुतध्वान्त नवांबुदाभ मेश
अघबकवृषकेशिपूतनान्त त्रिशिरोवालिदशास्यभेदकारिन्