कन्दलीति च विख्याता तनयौर्वमुनेर्द्विज
पुरुषो मे सहभवो दमितो धर्मकारणात्
तं पतिं प्राप्य विप्रेन्द्र प्राक्कर्मवशागा ह्यहम्
किञ्चित्पापावशेषेण राक्षसीं योनिमागता
गोभिलो नाम तेजस्वी स त्वया विनिपातितः
कस्याश्चिद्राजकन्यायाः स्त्रियाऽरब्धा मृतिस्तव
शुभस्य बलमापन्ना जाता तव सहायिनी
भार्याथ पापिना ब्रह्मंस्तेन व्यापादितो मया
ततस्त्वां गोपयिष्यामि सर्वभावेन कामुक
कृत्स्नस्य पुरुषस्येह सन्निधौ व्याहृतो मया
मद्वाक्ये भवता स्थेयं सर्वकृत्येषु मानद
प्रतिपेदे वचः सर्वं यत्कृतं हि तया तदा
करेणुरूपिणी भूत्वा पृष्ठे कृत्वा पतिं मम
ययावाकाशमार्गेण काशीमभि मुलोचने
त्रिभिर्मुहूर्तैः संप्राप्ता काशीं विश्वेशमन्दिरम्
इयं पापतरोः कान्त कुठारा परिकीर्तिता
कर्मबीजोपशमनी सर्वेषां गतिदायिका
नावैष्णवे स्थले मुक्तिः सर्वस्य तु कदाचन
मुक्तिदा सर्वजन्तूनां सर्वपापप्रणाशिनी
सर्वलोकैककर्तारं भ्राजमानं स्वतेजसा
नमस्कृत्य स्थितो ह्यग्रे वेदपाठं निशामयन्
उद्गिरन्तं जगन्नाथं दृष्ट्वा प्रीतो ऽभवत्तदा
प्रगल्भं तमुपालक्ष्य क्षणाज्जातः समत्सरः
चकर्त तन्नखाग्रेण खस्थं वक्त्रं त्रिलोचनः
वामे निर्धूतमानिशं न निवृत्तं द्विजोत्तम
रुद्रो ऽपि लज्जितो भूत्वा निर्ज्जगाम त्वरान्वितः
न शशाक परित्यक्तुं तदद्भुतमभून्महत्
तेन संस्मृतमात्रस्तु शीघ्रमाविरभूच्च सः
ननाम शिरसा नम्रो निष्प्रभो वृषभध्वजः
समाश्वास्या ब्रवीद्वाक्यं तत्तोषपरिकारकम्