सत्ये समास्थितो ब्रह्मा सत्ये सन्तः समास्थिताः
सत्यं ब्रूयादिति वचो वेदान्तेषु प्रगीयते
सत्यं तु सर्वदा विप्र मङ्गलं मङ्गलप्रदम्
स्त्रीषु सत्यं न वक्तव्यं तत्रापि शृणु कारणम्
उक्तं तद्धर्मजनकं धर्मसूक्ष्मत्वदर्शकम्
साक्ष्ये यत्र विवाहेषु दांपत्यं तदुदीरितम्
स्त्रीपुंसोर्द्विजसंस्कारे निर्दिष्टं गुरुशिष्ययोः
नानयोरणुमात्रो ऽपि भेदो बोध्यो विजानता
क्वचिद्व्यत्ययदोषश्चेद्दैवमेवात्र कारणम्
दैवं तत्पूर्वजन्मानि संचिताः कर्मवासनाः
शुभं वाप्यशुभं विप्र तं तु शान्तं विदुर्बुधाः
एवमादि विदित्वा तु नायं भर्ता निपातितः
गतिं प्रयातः कृतिनां त्वद्धस्तविनिपातितः
त्वत्प्राणरक्षणे धर्मो ममाभूद्द्विजसत्तम
राक्षसीं योनिमापन्ना राक्षसस्य प्रिया ह्यहम्
धर्मकामदुघा धेनुः संतोषो नन्दनं वनम्
वैतरण्यां पतन्भर्ता मयोद्धृत इहाभवत्
इयं त्वसंगिनी भार्या भविष्यति पितुर्गृहे
मत्संगमात्पूर्वमेव या भार्या विप्र ते ऽभवत्
सापि तिर्यग्गतिं प्राप्य मुच्यते मदनुग्रहात्
कन्दलीति च विख्याता तनयौर्वमुनेर्द्विज
पुरुषो मे सहभवो दमितो धर्मकारणात्
तं पतिं प्राप्य विप्रेन्द्र प्राक्कर्मवशागा ह्यहम्
किञ्चित्पापावशेषेण राक्षसीं योनिमागता
गोभिलो नाम तेजस्वी स त्वया विनिपातितः
कस्याश्चिद्राजकन्यायाः स्त्रियाऽरब्धा मृतिस्तव
शुभस्य बलमापन्ना जाता तव सहायिनी
भार्याथ पापिना ब्रह्मंस्तेन व्यापादितो मया
ततस्त्वां गोपयिष्यामि सर्वभावेन कामुक
कृत्स्नस्य पुरुषस्येह सन्निधौ व्याहृतो मया