मुग्धया तव रूपेण प्रेषितो यमसादनम्
भजस्व मां विशालाक्ष भक्तां वै कामरूपिणीम्
राक्षस्याः कामतप्तायाः कुमार्याः सन्निधौ शुभे
सुभगे नीतिशास्त्रेषु विश्वस्तव्या न योषितः
मत्तो रूपाधिकं मत्वा परं पुरुषलंपटा
सो ऽहं विश्वासभावेन विश्वस्तस्ते वरानने
व्यापादय यथेच्छं वा त्वां प्रपन्नो ऽस्मि भामिनि
आत्मा ते सर्वथा देयः प्रतीकारस्य हेतवे
ततो ऽहं नोत्तरं वच्मि परं किञ्चित्सुलोचने
विश्वस्तहिंसनं ब्रह्मन् ब्रह्महत्या समं भवेत्
पतिं तथापि गर्हेयं विश्वस्तं घातये कथम्
केचिन्मनुष्याः पटवो धर्मसूक्ष्मत्वचिन्तने
श्रूयते च पुराणेषु किञ्चिदत्र निगद्यते
दशावतारग्रहणे दुःखं प्राप्तमनेकधा
विलापं कुरुते नागपाशबन्धादिकर्मसु
हा कष्टमित्यस्रदृगादिचेष्टः पार्थोग्रसनादिकभृत्यकृत्यः
कन्यात्वविध्वसकवीर्यजन्मा कानीनसंज्ञो ऽनुजदारगामी
दिधिषू तनयः साक्षाद्वसुः स्त्रीवादमृत्युभाक्
तेषां संकीर्तनं पुण्यं पवित्रं पापनाशनम्
यं ध्यायन्ति स्मरन्त्यद्धा योगमूर्तिः सनातनः
श्रीनृसिंहो ऽसुरध्वंसी देवदेवाधिदैवतम्
संसारवासनाध्वंसी स्वर्णाक्षभवनस्थितिः
ईश्वरः क्षत्रसंहारभ्रूणहत्यादिकर्मकृत्
लोकग्लानिकरो जातः कुर्वन्धर्मानुरोधतः
नारायणपरो नारो नरो नरहितो ऽमरः
वेदबाह्यार्थसंयुक्तशास्त्री वेदोपकार कृत्
येन लोकोपकारार्थं वासिष्ठं शास्त्रमुत्तमम्
यः स्वयं रामचन्द्रस्य गुरुः सर्वेश्वरस्य च
यो दमित्वा विभुर्विन्ध्यं वातापिं सागरं स्थितः
यो विधिः कर्मसाक्ष्यादिवन्द्यो मान्यः पितामहः