कुमारीसेवने रक्षो महापापं विधीयते
तव दोषो न चेहास्ति भवितव्यं ममेदृशम्
विधियोगाद्भवेद्भर्ता विधियोगाद्भवेत्प्रिया
विधिना प्रेर्यमाणस्तु जनः सर्वत्र गच्छति
विधैना विहिते मार्गे किं करिष्यति पण्डितः
घृतं जलं कुशानग्निं विवाहं विधिना कुरु
ब्राह्मणस्यैव वाक्येन विवाहः सफलो भवेत्
वृत्ते होमस्य कार्ये तु तं भवान् भक्षयिष्यति
विश्वस्तमानसो दर्पान्निर्जगाम स राक्षसः
सत्वरं हृच्छयाविष्टस्तमानेतुं बहिः स्थितः
सव्यं चाप्यस्फुरन्नेत्रं स्ववस्त्रं स्खलितं तथा
बिभ्राणां मानुषं रूपं स्वामपश्यन्नितंबिनीम्
परित्यजामि त्वां पापं राक्षसं क्रूरकर्मिणम्
ईर्ष्याकोपसमायुक्तस्त्वभ्यधावन्निशाचरः
कालेन वेगात्पवनो यथैव समुच्चरन्वाक्यमनर्थयुक्तम्
दृष्ट्वा सा राक्षसी प्राह भर्तारं मम शङ्किता
ममायं पञ्चतां यातु दिगंबररिपुप्रिय
मुमोच विपुलां शक्तिं रक्षोवक्षस्थल प्रति
दिव्यांशुतीक्ष्ण वक्त्राता किङ्किणीशतनादिता
हृदि तस्य निपत्यासौ शक्तिर्विप्रकरच्युता
पातयित्वा स्वभर्तारं विप्रहस्तेन राक्षसी
अथोवाच द्विजं हृष्टा राक्षसी शुभलोचनम्
भुङ्क्ष्व भोगान्मया सार्द्धं ये दिव्या ये च मानुषाः
ततः सादाय मे कान्तं स्वां प्रविष्टा गुहां मुदा
कुचाभ्यामुन्नताभ्यां सा मद्भर्तारमपीडयत्
इयं तेनासितापाङ्गी बिम्बोष्ठी काञ्चनप्रभा
यस्याः सीमां न लङ्घन्ति पातकानि ह्यशेषतः
या गृहं त्रिपुरारेश्च पञ्चगव्यूतिसंस्थिता
स त्वमस्या गृहं पित्र्यं पुनर्नय सुलोचनाम्
मया सह समस्तानि विक्रीणीहि निजेच्छया