व्यापादिते ऽस्मिन्नुभयोः क्रीडनं संभविष्यति
तदात्मकगृतपुण्यस्य न भवेयं हि भागिनी
तां गतिं हि प्रपद्ये ऽहं यद्येतदनृतं भवेत्
या गतिर्विहिता घोरा तां गतिं प्राप्नुयाम्यहम्
या गतिस्तां द्विजश्रेष्ठ मिथ्या प्रोच्य समाप्नुयाम्
आत्मनो हनने या हि विहिता मुनिभिर्द्विज
पञ्चम्यां च तथाष्टम्यां यत्पापं मांसभक्षणे
यदुच्छिष्टे घृतं भोक्तुर्मैथुनेन दिवा च यत्
भिक्षामदातुर्भिक्षुभ्यो विधवाया द्विभोजनात्
तथा मृदमनुद्धृत्य स्नातुः परजलाशये
गामसेवयतो बद्ध्वा पाखण्डपथगामिनः
गोहीनां महिषीं धर्तुर्भिन्नकांस्ये च भुञ्जतः
नग्रस्त्रीप्रेक्षणं कर्तुरभक्ष्यस्य च भोजिनः
तेन पापेन लिप्ये ऽहं यदि वच्मि तवानृतम्
सर्वेषां भागिनी चाहं यद्येतदनृतं वदे
तथेति निश्चयं चक्रे भवितव्येन मोहितः
उवाच राक्षसीं वाक्यं सर्वंसिद्धिप्रदायकम्
सर्वमेतत्प्रदेयं हि त्वया मे राक्षसे हते
तच्छ्रुत्वा राक्षसी शक्तिं समानीय नगस्थिताम्
एतस्मिन्नेव काले तु राक्षसः काममोहितः
कुमारीसेवने रक्षो महापापं विधीयते
तव दोषो न चेहास्ति भवितव्यं ममेदृशम्
विधियोगाद्भवेद्भर्ता विधियोगाद्भवेत्प्रिया
विधिना प्रेर्यमाणस्तु जनः सर्वत्र गच्छति
विधैना विहिते मार्गे किं करिष्यति पण्डितः
घृतं जलं कुशानग्निं विवाहं विधिना कुरु
ब्राह्मणस्यैव वाक्येन विवाहः सफलो भवेत्
वृत्ते होमस्य कार्ये तु तं भवान् भक्षयिष्यति
विश्वस्तमानसो दर्पान्निर्जगाम स राक्षसः
सत्वरं हृच्छयाविष्टस्तमानेतुं बहिः स्थितः