असंभाव्यं च जगति संभवेद्दैवयोगतः
हिडंबा राक्षसी विप्र भीमभार्या भविष्यति
अवध्यः सर्वशस्त्राणां शक्त्या मृत्युमवाप्स्यति
भार्या तवाहं संजाता दव हि बलवत्तरम्
तदन्तरं समासाद्य भर्ता मे घोरराक्षसः
सेयं समाश्रिता चात्र शालवृक्षे तु वासवी
यद्वधाय प्रक्षिपेत्तां सो ऽमरो ऽपि विनश्यति
त्वत्करे संप्रदास्यामि भर्तुर्निधनकाम्यया
खादयिष्यति दुर्मेधास्त्वां च मां च न सशयः
येनाहृता कुमारीह भार्यार्थं मन्दबुद्धिना
व्यापादिते ऽस्मिन्नुभयोः क्रीडनं संभविष्यति
तदात्मकगृतपुण्यस्य न भवेयं हि भागिनी
तां गतिं हि प्रपद्ये ऽहं यद्येतदनृतं भवेत्
या गतिर्विहिता घोरा तां गतिं प्राप्नुयाम्यहम्
या गतिस्तां द्विजश्रेष्ठ मिथ्या प्रोच्य समाप्नुयाम्
आत्मनो हनने या हि विहिता मुनिभिर्द्विज
पञ्चम्यां च तथाष्टम्यां यत्पापं मांसभक्षणे
यदुच्छिष्टे घृतं भोक्तुर्मैथुनेन दिवा च यत्
भिक्षामदातुर्भिक्षुभ्यो विधवाया द्विभोजनात्
तथा मृदमनुद्धृत्य स्नातुः परजलाशये
गामसेवयतो बद्ध्वा पाखण्डपथगामिनः
गोहीनां महिषीं धर्तुर्भिन्नकांस्ये च भुञ्जतः
नग्रस्त्रीप्रेक्षणं कर्तुरभक्ष्यस्य च भोजिनः
तेन पापेन लिप्ये ऽहं यदि वच्मि तवानृतम्
सर्वेषां भागिनी चाहं यद्येतदनृतं वदे
तथेति निश्चयं चक्रे भवितव्येन मोहितः
उवाच राक्षसीं वाक्यं सर्वंसिद्धिप्रदायकम्
सर्वमेतत्प्रदेयं हि त्वया मे राक्षसे हते
तच्छ्रुत्वा राक्षसी शक्तिं समानीय नगस्थिताम्
एतस्मिन्नेव काले तु राक्षसः काममोहितः