सामान्यद्रव्यभोगादि निष्ठा चैवापरा भवेत्
मदीया मम भक्ष्यार्थं त्वयानीता सुलोचना
ततः स राक्षसः प्राह गच्छगच्छेति सत्वरम्
ततः सा राक्षसी घोरा श्रुत्वा पतिसमीरितम्
रूपयौवनसंयुक्तं विद्यारत्नविभूषितम्
हृच्छयेन समाविष्टा तदन्तिकमुपागमत्
कस्त्वं कस्मादिहायतः किमर्थमिह तिष्ठसि
स्वभर्त्राहं परित्यक्ता त्वां पतिं कर्तुमागता
उवाच वचनं प्राज्ञो धैर्यमालंब्य तां शुभे
मानुषास्तु स्मृता भक्ष्या राक्षसानां न संशयः
असंभाव्यं च जगति संभवेद्दैवयोगतः
हिडंबा राक्षसी विप्र भीमभार्या भविष्यति
अवध्यः सर्वशस्त्राणां शक्त्या मृत्युमवाप्स्यति
भार्या तवाहं संजाता दव हि बलवत्तरम्
तदन्तरं समासाद्य भर्ता मे घोरराक्षसः
सेयं समाश्रिता चात्र शालवृक्षे तु वासवी
यद्वधाय प्रक्षिपेत्तां सो ऽमरो ऽपि विनश्यति
त्वत्करे संप्रदास्यामि भर्तुर्निधनकाम्यया
खादयिष्यति दुर्मेधास्त्वां च मां च न सशयः
येनाहृता कुमारीह भार्यार्थं मन्दबुद्धिना
व्यापादिते ऽस्मिन्नुभयोः क्रीडनं संभविष्यति
तदात्मकगृतपुण्यस्य न भवेयं हि भागिनी
तां गतिं हि प्रपद्ये ऽहं यद्येतदनृतं भवेत्
या गतिर्विहिता घोरा तां गतिं प्राप्नुयाम्यहम्
या गतिस्तां द्विजश्रेष्ठ मिथ्या प्रोच्य समाप्नुयाम्
आत्मनो हनने या हि विहिता मुनिभिर्द्विज
पञ्चम्यां च तथाष्टम्यां यत्पापं मांसभक्षणे
यदुच्छिष्टे घृतं भोक्तुर्मैथुनेन दिवा च यत्
भिक्षामदातुर्भिक्षुभ्यो विधवाया द्विभोजनात्
तथा मृदमनुद्धृत्य स्नातुः परजलाशये