अन्यां समीहसे भार्यां नाहं भार्यां भवामि ते
उवाच राक्षसो हर्षात्स्वां प्रियां चारुलोचनाम्
दैवोपपादितं द्वारि द्वितीयं मम तिष्ठति
तमानय त्वरायुक्ता येनाहं भक्ष्यमाचरे
मिथ्या राक्षसि भर्ता ते भाषते त्वद्भयादयम्
सुप्तां पितृगृहे रात्रौ मां समासाद्य कामतः
इतीरितमुपाकर्ण्य वचनं राजकन्यया
तस्याश्च रूपमालोक्य सत्यमेवावधारयत्
अवश्यं मूर्घ्निं कीलं मे रोषयिष्यति राक्षसः
या सापत्न्येन दुःखेन पीड्यमाना हि जीवति
सामान्यद्रव्यभोगादि निष्ठा चैवापरा भवेत्
मदीया मम भक्ष्यार्थं त्वयानीता सुलोचना
ततः स राक्षसः प्राह गच्छगच्छेति सत्वरम्
ततः सा राक्षसी घोरा श्रुत्वा पतिसमीरितम्
रूपयौवनसंयुक्तं विद्यारत्नविभूषितम्
हृच्छयेन समाविष्टा तदन्तिकमुपागमत्
कस्त्वं कस्मादिहायतः किमर्थमिह तिष्ठसि
स्वभर्त्राहं परित्यक्ता त्वां पतिं कर्तुमागता
उवाच वचनं प्राज्ञो धैर्यमालंब्य तां शुभे
मानुषास्तु स्मृता भक्ष्या राक्षसानां न संशयः
असंभाव्यं च जगति संभवेद्दैवयोगतः
हिडंबा राक्षसी विप्र भीमभार्या भविष्यति
अवध्यः सर्वशस्त्राणां शक्त्या मृत्युमवाप्स्यति
भार्या तवाहं संजाता दव हि बलवत्तरम्
तदन्तरं समासाद्य भर्ता मे घोरराक्षसः
सेयं समाश्रिता चात्र शालवृक्षे तु वासवी
यद्वधाय प्रक्षिपेत्तां सो ऽमरो ऽपि विनश्यति
त्वत्करे संप्रदास्यामि भर्तुर्निधनकाम्यया
खादयिष्यति दुर्मेधास्त्वां च मां च न सशयः
येनाहृता कुमारीह भार्यार्थं मन्दबुद्धिना