उल्लिखन्तं हि शिखरैः खमध्यं स्वात्मनस्त्रिभिः
आरुरोह मुदायुक्तो वित्ताकाङ्क्षी सुलोचने
तत उत्थाय भक्ष्यार्थं वृक्षांस्तत्र व्यलोकयत्
शान्तिं प्राप्तस्ततो ऽपश्यत्सालमेकं सुनिर्मलम्
तस्याधस्तात्स सुष्वाप स्वोत्तरीयं प्रसार्य च
तावत्सुप्तो ऽतिखिन्नो ऽसौ यावत्सूर्यो ऽस्ततां गतः
अभ्यगाद्राक्षसो घोरो गर्जमानो यथा घनः
शुभां काशीपतेः पुत्रीं नाम्ना रत्नावलीं शुभाम्
पतिकामा कुमारी सा नाविन्दत्सदृशं पतिम्
पिता तस्याः प्रदाने तु चिन्ताविष्टो ह्यहर्न्निशम्
अटमानेन पापेन दृष्टा सा रूपशालिनी
उभयोर्दश रत्नानि निष्के च दशपञ्च च
एवं रत्नाचितां बालां शातकुम्भसमप्रभाम्
वायुमार्गं समाश्रित्य क्षणात्प्राप्तः स्वमालयम्
तत्र तस्य गुहां दृष्ट्वा सुवर्णसदृशप्रभाम्
अनेकैर्मणिविन्यासैः संयुक्तां चित्रमन्दिराम्
भोजनैः पानपात्रैश्च भक्ष्यभोज्यैरनेकधा
रुदतीमतिसंत्रस्तां पीनश्रोणिपयोधराम्
आजगाम त्वरायुक्ता यत्रासौ राक्षसः स्थितः
पप्रच्छ निजभर्तारं क्रुद्धा निर्भर्त्सती सती
अन्यां समीहसे भार्यां नाहं भार्यां भवामि ते
उवाच राक्षसो हर्षात्स्वां प्रियां चारुलोचनाम्
दैवोपपादितं द्वारि द्वितीयं मम तिष्ठति
तमानय त्वरायुक्ता येनाहं भक्ष्यमाचरे
मिथ्या राक्षसि भर्ता ते भाषते त्वद्भयादयम्
सुप्तां पितृगृहे रात्रौ मां समासाद्य कामतः
इतीरितमुपाकर्ण्य वचनं राजकन्यया
तस्याश्च रूपमालोक्य सत्यमेवावधारयत्
अवश्यं मूर्घ्निं कीलं मे रोषयिष्यति राक्षसः
या सापत्न्येन दुःखेन पीड्यमाना हि जीवति