ततश्छुछुन्दरी स्याच्च सप्त जन्मानि भारते
भर्तुरर्थे तु या वित्तें विद्यमानं न यच्छति
क्रिमियोनिविनिर्मुक्ता काष्ठीला जायते शुभे
अग्निप्रज्वालनाथ हि काष्ठं पाटयते चिरम्
काष्ठं पाटयतस्तस्य समीपमगमं तदा
नवनीतनिभं देहं बिभ्राणा चाञ्जनत्विषम्
तां दृष्ट्वा पतितां भूमौ हन्तुं ध्वाङ्क्षः समागतः
तावन्निवारितः सद्यो मया लोष्टेन तत्क्षणात्
सक्षता तुण्डसंस्पृष्टा न च शक्ता पलायितुम्
सिक्ता किञ्चिज्जलैनैव ततः स्वास्थ्यमुपागता
संध्यावलीति संबोध्य सखीमध्यसमास्थिताम्
पूर्वजन्मनि पत्नी च कैण्डिन्यस्य शुभानने
जनन्या बन्धुवर्गस्य पितुरिष्टतमा ह्यहम्
कुलीनाय सरूपाय स्त्रीसंगरहिताय च
श्वशुरेणापि मे दत्तं सुवर्णस्यायुतं पुरा
गोमहिष्यादिसंयुक्ता धनधान्यसमन्विता
कालेन पञ्चतां प्राप्तः श्वशुरो वेदतत्त्ववित्
ततो भर्ताञ्जलिं दत्वा पित्रोः श्राद्धमथाकरोत्
गतः कौतुकभावेनहृच्छयेन प्रपीडितः
प्रविशत्यां नृपगृहे दृष्टास्तेन द्विजन्मना
स्वगृहे धारयामास क्रीडार्थं दुर्मतिः पतिः
वर्षत्रये गते देवि निस्वो जातः पतिर्मम
तन्मया नहि दत्तं तु भर्त्रे व्यसनिने तदा
ततः पितृगृहे वित्तं भृत्यादिकमशेषतः
क्षेत्रधान्यादिकं यच्च सभाण्डं सपरिच्छदम्
नावमारुह्य मे भर्ता विवेशान्तर्महोदधेः
शुभे समुद्रजातानि जीवचेष्ठाङ्कितानि च
गता विशीर्णतां तत्र मृतास्ते नावमाश्रिताः
वायुना नीयमानो ऽसौ प्राचीनेन स्वकर्मणा
बहुनिर् झरणोपेतं बहुपक्षिसमन्वितम्