उवाच कनकाभां तां भर्तुर्ज्येष्ठां प्रियां तदा
विद्वद्भिर्मुनिभिर्य्यत्तु गीयते नारदादिभिः
क्रियतामपरं देवि मरणादधिकं तव
कस्येष्टमात्महननं कस्येष्टं विषभक्षणम्
व्याघ्रसिंहाभिगमनं समुद्रतरणं तथा
अपथ्यभक्षणं लोके तथाभक्ष्यस्य भक्षणम्
छेदनं तृणकाष्ठानां लोष्टानामवमर्द्दनम्
दैवाविष्टो वरारोहे नरः सर्वं करोति वै
नरकार्हे नरो देवि करोत्यशुभकर्म तत्
यादृशेन हि भावेन योनौ शुक्रं समुत्सृजेत्
साहं विवादभावेन राज्ञो रुक्माङ्गदस्य हि
दुष्टभावा तथा जाता कर्त्री दुष्टं नृपस्य तु
तत्कालभावना ग्राह्या तद्भावो जायते सुतः
न च व्रीडा न च स्नेहो न धर्मो देवि विद्यते
जानन्नपि यथायुक्तस्तं भावमनुवर्तते
धर्मापहं वाच्यकरं ममापि कर्तुं न शक्यं मनसापि भीरु
भर्तुर्यशः स्यात्त्रिदिवे गतिस्ते पुत्रे प्रशंसा मम धिग्विवादः
धैर्यमालंब्य तां तन्वीं ब्रूहि ब्रूहीत्यचोदयत्
भर्तुरर्थे प्रकुर्वन्त्या राज्यनाशे न मे व्यथा
समृद्धायाः सपापायास्तस्याः प्रोक्ता ह्यधोगतिः
ततश्छुछुन्दरी स्याच्च सप्त जन्मानि भारते
भर्तुरर्थे तु या वित्तें विद्यमानं न यच्छति
क्रिमियोनिविनिर्मुक्ता काष्ठीला जायते शुभे
अग्निप्रज्वालनाथ हि काष्ठं पाटयते चिरम्
काष्ठं पाटयतस्तस्य समीपमगमं तदा
नवनीतनिभं देहं बिभ्राणा चाञ्जनत्विषम्
तां दृष्ट्वा पतितां भूमौ हन्तुं ध्वाङ्क्षः समागतः
तावन्निवारितः सद्यो मया लोष्टेन तत्क्षणात्
सक्षता तुण्डसंस्पृष्टा न च शक्ता पलायितुम्
सिक्ता किञ्चिज्जलैनैव ततः स्वास्थ्यमुपागता