न त्वेव कुर्यां मधुसूदनस्य दिने सुपुण्ये ऽन्ननिषेवणं हि
आहूय जननीं शीघ्रं नाम्ना संध्यावलीं शुभाम्
पालयन्तीं धरां सर्वां पादविन्यासविक्रमैः
श्राविता मोहिनी वाक्यं पितुर्वाक्यं तथैव च
भोजनाय स्थितामेनां नृपस्य हरिवासरे
तथा विधीयतामेवं कुशलं चोभयोर्भवेत्
मोहिनीं श्लक्ष्णया वाचा प्राह ब्रह्मसुता तदा
नास्वादयति पापान्न संप्राप्ते हरिवासरे
सदा भवति या नारी भर्तुर्वचनकारिणी
यद्यनेन पुरा देवि तव दत्तः करो गिरौ
यद्देयं तद्ददात्येष ह्यदेयं प्रार्थयस्व मा
न भुक्तं येन सुभगे शैशवे ऽपि हरेर्दिने
कामं वरय वामोरुवरमन्यं सुदुर्लभम्
मन्यसे यदि मां देवि धर्माङ्गदविरोहिणीम्
सप्तद्वीपसमेतं हि ससरिद्वनपर्वतम्
भर्तुरर्थे विशालाक्षि प्रसीद तनुमध्यमे
अकार्यं कारयेत्पापा सा नारी निरये वसेत्
सूकरीं योनिमाप्नोति चाण्डालीं च ततः परम्
निवारितासि वामोरु सखीभावेन सुंदरि
किं पुनः सखिसंस्थायास्तव पद्मनिभानने
उवाच कनकाभां तां भर्तुर्ज्येष्ठां प्रियां तदा
विद्वद्भिर्मुनिभिर्य्यत्तु गीयते नारदादिभिः
क्रियतामपरं देवि मरणादधिकं तव
कस्येष्टमात्महननं कस्येष्टं विषभक्षणम्
व्याघ्रसिंहाभिगमनं समुद्रतरणं तथा
अपथ्यभक्षणं लोके तथाभक्ष्यस्य भक्षणम्
छेदनं तृणकाष्ठानां लोष्टानामवमर्द्दनम्
दैवाविष्टो वरारोहे नरः सर्वं करोति वै
नरकार्हे नरो देवि करोत्यशुभकर्म तत्
यादृशेन हि भावेन योनौ शुक्रं समुत्सृजेत्