हस्ते हि पापस्य दिवाप्रकीर्तेर्वत्स्यामि तत्कर्मकरः सुभुक्तः
तच्चापि राजेन्द्र ददस्व देव्यै मज्जीवितं मज्जननीभवं वा
विराजयित्वा स्वगुणैर्नृपौघान्करैरिवात्मप्रभवैः खशोभैः
संमार्जयित्वा विमलं यशः स्वं कथं सुखी स्यां नृपते ततः क्षमः
गतो वा नरकं घोरं कथं भोक्ष्ये हरेर्दिने
भूयो भूयो वदति मां दुर्मेधाश्च सुबालिशा
मुक्त्वैवं वासरे विष्णोर्भोजनं पापनाशने
तथापि नैव कर्ताहं भोजनं हरिवासरे
दुन्दुभी कुर्वती नादं सा कथं वितथा भवेत्
अपेयं चैव पीत्वा तु किं जीवेच्छरदः शतम्
धिक्कृतो ऽपि जनैः सर्वैर्न भोक्ष्ये हरिवासरे
तच्चापि वरमेवात्र न भोक्ष्ये हरिवासरे
व्रजद्भिर्मनुजैर्मार्गे निरयस्यातिदुःखितैः
जनैः पूर्णा भविष्यन्ति मयि भुक्ते तु ताः सुत
समर्थो यस्तु शत्रूणां हर्षं संजनयेद्भुवि
तन्न दास्यामि मोहिन्या याचितो ऽपि सुरासुरैः
आकाशभासा स्वशिरश्छिन्द्यादेव वरासिना
रुक्माङ्गदेति मन्नाम प्रसिद्धं भुवनत्रये
स कथं भोजनं कृत्वा नाशये स्वकृतं यशः
विरमति तदपि न चेतो मामकमिति मोहिनीहेतोः
न त्वेव कुर्यां मधुसूदनस्य दिने सुपुण्ये ऽन्ननिषेवणं हि
आहूय जननीं शीघ्रं नाम्ना संध्यावलीं शुभाम्
पालयन्तीं धरां सर्वां पादविन्यासविक्रमैः
श्राविता मोहिनी वाक्यं पितुर्वाक्यं तथैव च
भोजनाय स्थितामेनां नृपस्य हरिवासरे
तथा विधीयतामेवं कुशलं चोभयोर्भवेत्
मोहिनीं श्लक्ष्णया वाचा प्राह ब्रह्मसुता तदा
नास्वादयति पापान्न संप्राप्ते हरिवासरे
सदा भवति या नारी भर्तुर्वचनकारिणी
यद्यनेन पुरा देवि तव दत्तः करो गिरौ