धर्माङ्गदो धर्ममूर्तिः रुक्मागदसुतस्तदा
पुनरुत्थाय विप्रेन्द्रान्ननाम विहिताञ्जलिः
आलक्ष्य तरसा मातः प्राह राजन् कृताञ्जलिः
एतैर्द्विजेन्द्रैः सहिता क्व त्वं संप्रस्थिताधुना
पिता तवानृती पुत्र करो येन वृथा कृतः
ध्वजाङ्कुशाङ्कितः श्रीमान्दक्षिणः कनकाङ्गदः
रुक्माङ्गदेन ते पित्रा न चाहं वस्तुमुत्सहे
मा कोपं कुरु मातस्त्वं निवर्त्ततस्व पितुः प्रिये
कृता भार्या शिवः साक्ष्ये स्थितो यत्र सुराधिपः
न प्रयच्छति मे देयं तस्य वृद्धिं विचिन्तये
येन तस्य भवेद्धानिर्न याचे तन्नृपात्मज
तन्मया प्रार्थितं पुत्र स मोहान्न प्रयच्छति
याचितः सुखहेतोस्तु मया नृपतिसत्तमः
स्थितः सो ऽद्यानृते घोरे सुरापानसमे विभुः
परित्यजेयं जनकं तवाधमं नैव स्थितिर्मे भविता हि तेन
मयि जीवति तातो मे न भवेदनृती क्वचित्
पित्रा मे नानृतं देवि पूर्वमुक्तं कदाचन
यस्य सत्ये स्थिता लोकाः सदेवासुरमानुषाः
विजृंभते यस्य कीर्तिर्व्याप्तं ब्रह्माण्डमण्डलम्
अश्रुतं भूपतेर्वाक्यं परोक्षे श्रद्दधे कथम्
एतद्धर्माङ्गदेनोक्तं वाक्यमाकर्ण्य मोहिनी
यत्र रुक्माङ्गदः शेते मृतकल्पो रविप्रभः
दीपरत्नैः सुप्रकाशे विद्रुमैश्चित्रिते वरे
दीर्घविस्तारसंयुक्ते ह्यनौपम्ये मनोहरे
तातैषा जननी मे ऽद्य त्वां वदत्यनृती त्विति
सकोषरत्ननिचये गजाश्वरथसंयुते
प्रदेहि सकलं ह्यस्यै यत्त्या श्रावितं विभो
देहि शक्रपदं देव्यै जितं विद्धि पुरन्दरम्
तच्चाप्यहं प्रदास्यामि तपसा तोष्य पद्मजम्
त्रिविष्टपे वापि परे पदे वा दास्यामि जित्वा नरदेवदानवान्