एवं ज्ञात्वा द्विजश्रेष्ठा वैष्णवव्रतशालिनः
असंपरीक्ष्य ये दद्युः प्रायश्चित्तं द्विजातयः
देवो वा दानवो वापि गन्धर्वो राक्षसो ऽपि वा
हरिर्वापि हरो वापि मोहिनीजनको ऽपि वा
यो हि रुक्माङ्गदो राजा विख्यातो भूतले द्विजाः
द्युपतेः क्षीयते तेजो हिमवान्परिवर्त्तते
तथापि न त्यजे विप्रा व्रतमेकादशीदिने
ग्रामेषु देशेषु परेषु वापि ये भुञ्जते रुक्मविभूषणस्य
हरेर्दिने सर्वमखप्रधाने पापापहे धर्मविवर्द्धने च
एंवविधे प्रोद्गत एव शब्दे यद्यस्मि भोक्ता वृजिनस्य कर्त्ता
उत्पाद्य कीर्तिं स्वयमेव जतुर्निकृन्तति प्राणभयाच्च पापात्
वृथा हि सूता मम सा जनित्री भवेन्निराशा द्विजपितृदेवाः
किं तेन जातेन दुरात्मना हि ददाति हर्षं रिपुसुंदरीणाम्
न मन्यते वेदपुराणशास्त्रानन्ते पुरीं याति दिनेशसूनोः
वेदा न शास्त्रं न च तत्पुराणं न चापि सन्तः स्मृतयो न च स्युः
श्राद्धेन तेनापि न चास्ति तृप्तिः पितुश्च चीर्णेन हरेर्दिने तु
व्रतेन यद्विष्णुपदप्रदेन साकं क्षयाहेन वदन्तु मूढाः
कोपसंरक्तनयना भर्तारं पर्यभाषत्
धर्मबाह्यो हि पुरुषः पांशुना तुल्यतां व्रजेत्
त्वया ममार्पितः पाणिर्वराय पृथिवीपते
कृतकृत्या तदा यास्ये प्राप्तो धर्मो मया तव
उपधानं करिष्यामि स्वकं बाहुं न ते युधि
म्लेच्छेष्वपि न दृश्येत त्वादृशो धर्मलोपकः
एवमुक्त्वा वरारोहा ह्युदतिष्ठत्त्वरान्विता
प्रस्थिता सा तदा तन्वी भूसुरैश्च समन्विता
वरं नीलांबरस्पर्शो नास्य धर्मच्युतस्य हि
गौतमादिसमायुक्ता निर्जगाम गृहाद्ब्रहिः
इत्येव शब्दं क्रोशन्ती ब्रह्मणोमानसोद्भवा
अटित्वा सकलामुर्वीं संप्राप्तो धर्मभूषणः
कर्णाभ्यां तस्य शब्दो ऽसौ विश्रुतः पितृवत्सलः