सोंऽधे तमसि मज्जेत यावदिन्द्राश्चतुर्द्दश
प्रजासंरक्षणं त्यक्त्वा चतुर्वर्गफलप्रदम्
शूद्राणां द्विजसेवा च लोकरक्षा महीभृताम्
अज्ञानाद्वा प्रमादाच्च पतितः स न संशयः
सुबुद्ध्याचारशीलश्च वेदोक्तं त्यजति द्विजाः
एकान्तशीलो नृपतिर्भृत्यः कर्मविवर्जितः
अयं हि नियमोपेतो हरिपूजनतत्परः
व्यपोह्य हरिपूजां वै ब्रह्महत्यां तु विन्दति
अन्नात्प्रभवति प्राणः प्राणाद्देहविचेष्टनम्
एवं ज्ञात्वा मया राजा बोध्यमानो न बुद्ध्यति
न व्रतं किञ्चिदस्त्यन्यन्नृपस्य द्विजसत्तमाः
तद्देवकार्यं स च यज्ञहोमो यद्रक्तपातो न भवेत् स्वराष्ट्रे
तथ्यमित्येवमुक्त्वा तु राजानं वाक्यमब्रुवन्
एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि
साग्रीनां प्राशनं प्रोक्तमुभयोः संध्ययोः किल
विशेषाद्भूमिपालानां कथं युक्तमुपोषणम्
शास्त्रतो ऽशास्त्रतो वापि यस्त्वया शपथः कृतः
व्रतभङ्गो न ते ऽस्तीह भुक्ष्वं विप्रसमन्वितः
यो ऽन्यथा मन्यते वाक्यं विप्राणां नृपसत्तम
तच्छ्रुत्वा वचनं रोद्रं राजा कोपसमन्वितः
सर्वेषामेव भूतानां भवन्तो मार्गदर्शिनः
विमार्गगामिनां चैतन्मतं न सात्वतां क्वचित्
तत्र वाक्यानि शृणुत वैष्णवा चारलक्षणे
एका दश्यां न भोक्तव्यं पक्षयोरुभयोरपि
क्रीडेन्नाक्षैस्तु धर्मज्ञो नाश्नीयाद्धरिवासरे
एकादश्यां भोजनं च पतनस्यैव कारणम्
को हि संचेष्टमानस्तु भुनक्ति हरिवासरे
उत्तराशास्थितैर्विप्रैर्विष्णुधर्मपरायणैः
नोपक्षीणशरीरो ऽहं नामयावी द्विजोत्तमाः
धर्मभूषणसंज्ञेन रक्ष्यमाणे धरातले