मोहिनी सहिता राज्ञा ववन्दे कार्यतत्परा
आसनेषु महीपाल ज्वलदग्निसमप्रभाः
वयं समागता देवि नानाशास्त्रविशारदाः
तच्छत्वा वचनं तेषां मोहिनी ब्रह्मणः सुता
संदेहस्तु जडौ ह्येष स्वल्पो वा स्वमतिर्यथा
अन्नाधारमिदं सर्वं जगत्स्थावरजङ्गमम्
कर्कन्धुमात्रं प्रहुतं पुरोडाशं हि देवताः
पिपीलिकापि क्षुधिता मुखेनादाय तण्डुलम्
अयं खादति नान्नाद्यं संप्राप्ते हरिवासरे
विधावानां यतीनां च युज्यते व्रतसेवनम्
सोंऽधे तमसि मज्जेत यावदिन्द्राश्चतुर्द्दश
प्रजासंरक्षणं त्यक्त्वा चतुर्वर्गफलप्रदम्
शूद्राणां द्विजसेवा च लोकरक्षा महीभृताम्
अज्ञानाद्वा प्रमादाच्च पतितः स न संशयः
सुबुद्ध्याचारशीलश्च वेदोक्तं त्यजति द्विजाः
एकान्तशीलो नृपतिर्भृत्यः कर्मविवर्जितः
अयं हि नियमोपेतो हरिपूजनतत्परः
व्यपोह्य हरिपूजां वै ब्रह्महत्यां तु विन्दति
अन्नात्प्रभवति प्राणः प्राणाद्देहविचेष्टनम्
एवं ज्ञात्वा मया राजा बोध्यमानो न बुद्ध्यति
न व्रतं किञ्चिदस्त्यन्यन्नृपस्य द्विजसत्तमाः
तद्देवकार्यं स च यज्ञहोमो यद्रक्तपातो न भवेत् स्वराष्ट्रे
तथ्यमित्येवमुक्त्वा तु राजानं वाक्यमब्रुवन्
एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि
साग्रीनां प्राशनं प्रोक्तमुभयोः संध्ययोः किल
विशेषाद्भूमिपालानां कथं युक्तमुपोषणम्
शास्त्रतो ऽशास्त्रतो वापि यस्त्वया शपथः कृतः
व्रतभङ्गो न ते ऽस्तीह भुक्ष्वं विप्रसमन्वितः
यो ऽन्यथा मन्यते वाक्यं विप्राणां नृपसत्तम
तच्छ्रुत्वा वचनं रोद्रं राजा कोपसमन्वितः