मन्दरे पर्वतश्रेष्ठे हरिवासरभोजनम्
क्षुद्रशास्त्रोपदेशेन लोलुपेन वरानने
न शङ्खेन पिबेत्तोयं न हन्यात्कूर्मसूकरौ
अगम्यागमने देवि अभक्ष्यस्य च भक्षणे
जानन्नपि कथं देवि भोक्ष्ये ऽहं हरिवासरे
अभक्ष्येण समः प्रोक्तः किं पुनश्चात्तनक्रिया
मूलं फलं पयस्तोयमुपभोज्यं मुनीश्वरैः
ज्वरिणां लङ्घनं शस्तं धार्मिकाणामुपोषणम्
ज्वरमध्ये कृतं पथ्यं निधनाय प्रकल्पते
माग्रहं कुरु वामोरु व्रतभङ्गो भवेन्मम
न चान्यद्रोचते राजन्विना वै भोजनं तव
न च वेदेषु दृष्टो ऽयमुपवासो हरेर्दिने
वेदबाह्य कथं धर्मं भवांश्चरितुमिच्छति
उवाच मानसे क्रुद्धः प्रहसन्निव भूपते
यज्ञकर्मक्रिया वेदः स्मृतिर्वेदो गृहाश्रमे
पुराणपुंरुषाज्जातं यथेदं जगदद्भुतम्
वेदार्थादधिकं मन्ये पुराणार्थं वरानने
बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति
तिथिवृद्धिक्षयो वापि पर्वग्रहविनिर्णयः
यन्न दृष्टं हि वेदेषु तत्सर्वं लक्ष्यते स्मृतौ
प्रायश्चित्तं तु हत्यायामातुरस्यौषधं प्रिये
यद्वेदैर्गीयते सुभ्रु उपाङ्गैर्यत्प्रगीयते
रटन्तीह पुराणानि भूयो भूयो वरानने
पुराणमन्यथा मत्वा तिर्यग्योनिमवाप्नुयात्
पितरं को न वन्देत मातरं को न पूजयेत्
को हि दूषयते वेदं ब्राह्मणं को निपातयेत्
को गच्छेत्परदारान् हि को भुङ्क्ते हरिवासरे
यद्भोजनेनात्मनिपातकारिणा यमस्य रवातेषु चिरं सुलोचने
येषां वाक्येन युक्तो ऽयं राजा कुर्याद्धि भोजनम्
गौतमादीन्समाहूय मोहिनीपार्श्वमानयत