त्रिविधेन पुराणेन भर्त्तुर्या स्त्री हिते रता
किमन्यैर्बहुभिर्भूप वाक्यालापकृतैर्मया
न प्रीतिर्यदि मे छित्वा शिरः स्वं हि प्रयच्छसि
तदा ह्यसत्यवचसो देहं न स्पर्शयामि ते
विशेषाद्भूमिपालानां त्वद्विधानां महीपते
सत्ये स्थिता क्षितिर्भूप सत्यं धारयते जगत्
सत्या धारमिदं सर्वं जगत्स्थावरजङ्गमम्
न गर्भं युवती धत्ते वेलातीतं कदाचन
दिव्यादिसाधनं नॄणां सत्याधारं महीपते
मदिरापानतुल्येन कर्मणा लिप्यसे ऽनृतात्
मन्दरे पर्वतश्रेष्ठे हरिवासरभोजनम्
क्षुद्रशास्त्रोपदेशेन लोलुपेन वरानने
न शङ्खेन पिबेत्तोयं न हन्यात्कूर्मसूकरौ
अगम्यागमने देवि अभक्ष्यस्य च भक्षणे
जानन्नपि कथं देवि भोक्ष्ये ऽहं हरिवासरे
अभक्ष्येण समः प्रोक्तः किं पुनश्चात्तनक्रिया
मूलं फलं पयस्तोयमुपभोज्यं मुनीश्वरैः
ज्वरिणां लङ्घनं शस्तं धार्मिकाणामुपोषणम्
ज्वरमध्ये कृतं पथ्यं निधनाय प्रकल्पते
माग्रहं कुरु वामोरु व्रतभङ्गो भवेन्मम
न चान्यद्रोचते राजन्विना वै भोजनं तव
न च वेदेषु दृष्टो ऽयमुपवासो हरेर्दिने
वेदबाह्य कथं धर्मं भवांश्चरितुमिच्छति
उवाच मानसे क्रुद्धः प्रहसन्निव भूपते
यज्ञकर्मक्रिया वेदः स्मृतिर्वेदो गृहाश्रमे
पुराणपुंरुषाज्जातं यथेदं जगदद्भुतम्
वेदार्थादधिकं मन्ये पुराणार्थं वरानने
बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति
तिथिवृद्धिक्षयो वापि पर्वग्रहविनिर्णयः
यन्न दृष्टं हि वेदेषु तत्सर्वं लक्ष्यते स्मृतौ