जन्मप्रभृति यत्पुण्यं त्वया यत्नेन संचितम्
एहि चार्वङ्गि कर्त्तास्मि यत्ते मनसि वर्तते
किं पुनर्ग्रामवित्तादि धरायुक्तं च भामिनि
नोपोष्यं वामरं विष्णोर्भोक्तव्या यद्यहं प्रिया
त्वत्संयोगं विना भूता भविष्यामि वरं विना
तदा त्यजोपवासं हि भुज्यतां हरिवासरे
न चेद्दास्यसि राजेन्द्र भूत्वानृतवचाभवान्
मैवं त्वं वद कल्याणि नेदं त्वय्युपपद्यते
जन्मप्रभृत्यहं नैव भुक्तवान्हरिवासरे
यौवनातीतमर्त्यस्य क्षीणेन्द्रियबलस्य च
न कृतं यन्मया बाल्ये यौवने न कृतं च यत्
प्रसीद चपलापाङ्गि प्रसीद वरवर्णिनि
अथवा नेच्छसि त्वं तत्करोम्यन्यत्सुलोचने
यत्रेच्छसि नयिष्यामि पादचारी कलत्रयुक्
तर्हि स्वर्णमयौ स्तंभौ कृत्वा विद्रुमभूषितौ
तत्र त्वां दोलयिष्यामि बहून्मासानहर्निशम्
वरं श्वपचमांसं हि श्वमांसं वा वरानने
त्रैलोक्यघातिनः पापं मैथुने शशिनः क्षये
भोजने वासरे विष्णोस्तैले षष्ट्यां व्यवस्थिते
आज्येषु पौर्णमास्यां वै सुरायां रविसंक्रमे
निक्षेपहारके वापि कुमारीविघ्नकारके
ददामीति द्विजाग्र्याय प्रतिश्रुत्य न दातरि
यत्पातकं तदन्ने हि संस्थितं हरिवासरे
एकभुक्तेन नक्तेन तथैवायाचितेन च
गुर्विणीनां गृहस्थानां क्षीणानां रोगिणां तथा
यज्ञभोगोद्यतानां च संग्रामक्षितिसेविनाम्
एतन्मे गौतमः प्राह स्थिताया मन्दराचले
ते गृहस्था द्विजा ज्ञेया येषामग्निपरिग्रहः
गुर्विणी ह्यष्टममासीया शिशवश्चाष्टवत्सराः
ये विवाहादिमाङ्गल्यकर्मव्यग्रा महोत्सवाः