व्रतं चकाराथ तदा हि देवी ह्यशेषपापौघविनाशनाय
उवाच वाक्यं कुशकेतुपुत्रीं कृतं वचः सुभ्रु समीहितं ते
विमुक्तकार्यस्तव सुभ्रु हेतोर्नान्यास्ति नारी मम सौख्यहेतुः
ज्ञात्वा भवन्तं बहुकामयुक्तं त्रिविष्टपान्नाथ समागताहम्
संदृश्यमानान्मम नाथ हेतोः स्नेहान्विताहं तव मन्दराद्रौ
अन्यचेतः कृतः कामः शवयोरिव संगमः
त्वया कामवता कान्त दुर्ल्लभं यज्जगत्त्रये
तदेव चामृतं लोके यत्पुरन्ध्र्यधरासवम्
एवमुक्त्वा परिष्वज्य राजानं रहसि स्थितम्
तस्यैवं रममाणस्य मोहिन्या सहितस्य हि
मत्तेभकुंभसंस्थस्तु धर्माङ्गदनिदेशतः
अक्षारलवणाः सर्वे हविष्यान्ननिषेविणः
स्मरध्वं देवदेवेशं पुराणं पुरुषोत्तमम्
अकृतश्राद्धनिचया अप्राप्ताः पिण्डमेव च
एषा कार्तिकशुक्ला वै हरेर्निद्राव्यपोहिनी
ब्रह्महत्यादिपापानि कामकारकृतानि च
प्रबोधयेद्धर्म्मपरान्न्यायाचार समन्वितान्
सकृच्चोपोषितां चेमां निद्राच्छेदकरीं हरेः
रुरुध्वं चक्रिणः पूजामात्मवित्तेन मानवाः
सुहृद्यैश्च फलैर्गन्धैर्यजध्वं श्रीहरेः पदम्
स मे दण्ड्यश्च वाध्यश्च निर्वास्यो विषयाद्ध्रुवम्
हस्ता दमुञ्च तांबूलं सकर्पूरं नृपोत्तमः
उदत्तिष्ठन्महीपालः शय्यायां रतिवर्द्धनः
देवि प्रातर्हरिदिनं भविष्यत्यधनाशनम्
तवाज्ञया मया कृच्छ्रं सन्ध्यावल्या तु कारितम्
अशेषपापबन्धस्य छेदनी गतिदायिनी
तस्माद्धविष्यं भोक्ष्ये ऽहं नियतो मत्तगामिनी
येन यास्यसि निर्वाणं दाहप्रलयवर्जितम्
जन्ममृत्युजराछेदि करिष्ये ऽहं तवाज्ञया
करप्रदानसहिता भवता सुकृताङ्किता