स काञ्चनं तथा ताम्रं सघृतं दीपकं प्रिये
एकान्तरोपवासी तु क्षौमवस्त्रं प्रदापयेत्
षड्ररात्राद्युपवासेषु शिबिकां छत्रसंयुताम्
अजाविकं त्वेकभक्ते फलाहारे सुवर्णकम्
रसानां चैव सर्वेषां त्यागे ऽनुक्तस्य वापि च
यथोक्तस्याप्रदाने तु यथोक्ताकरणे ऽपि वा
वृथा विप्रवचो यस्तु मन्यते मनुजः शुभे
व्रतवैकल्यमासाद्य कुष्ठी चान्धः प्रजायते
को लङ्घयेत्सुभ्रु वचो हि तेषां श्रेयोभिकामो मनुजस्तु विद्वान्
प्रकाशितं तुभ्यमनन्यवाच्यं फलप्रदं माधवतुष्टिहेतुम्
व्रतादिकरणं राज्ञां नोक्तं क्वापि निदर्शने
दानं हि पालनं युद्धं तृतीयं भूभुजां स्मृतम्
मुहूर्तमपि राजेन्द्र न शक्नोमि त्वया विना
यत्रोपवासकरणं मन्यसे वसाधाधिप
एवमुक्ते तु वचने मोहिन्या रुक्मभूषणः
आहूता तत्क्षणात्प्राप्ता राजानं भूरिदक्षिणम्
संघृष्टं हि कुचाग्रेण स्वर्णकुंभनिभेन हि
कृतां जलिपुटा भूत्वा भर्तुर्नमितकन्धरा
तव वाक्ये स्थिता कान्त दुःसापत्न्यविवर्जिता
तथा तथा मम प्रीतिर्वर्द्धते नात्र संशयः
सा तु श्येनी भवेद्राजंस्त्रीणि वर्षाणि पञ्च च
आज्ञां मे देहि राजेन्द्र मा व्रीहां कामिकां कुरु
तव वाक्येन हि चिरं मोहिनी रमिता मया
प्रिया सौख्येन मुग्धस्य न गतो हरिवासरः
ज्ञातो ऽयं कार्तिको मासः सर्वपापक्षयङ्करः
इयं वारयते मां च व्रताद्ब्रह्मसुता शुभे
मामकं व्रतमाधत्स्व कृच्छ्राख्यं कायशोषकम्
उवाच वाक्यं द्विजराजकक्त्राव्रतं चरिष्ये तव तुष्टिहेतोः
करोमि सौम्यं नरदेवनाथ क्षिपामि देहं ज्वलनेत्वदर्थम्
किन्त्वेवमेतद्व्रतकर्म भूयः करोमि सौम्यं नरदेवनाथ