अन्यं भजन्ते भूपाल पतिं त्यक्त्वा च याः स्त्रियः
पातयित्वा रमन्ते च बहुकालं बलान्विताः
अ यः स्तम्भं समाश्सिष्य तिष्ठन्त्यब्दसहस्रकम्
तदन्ते नरकान् सर्वान् भुञ्जते ऽब्दशतं शतम्
स चापि यातनाः सर्वा भुङ्क्ते कल्पेषु पञ्चसु
तेषां कर्णेषु दाप्यन्ते तत्पायः कीलसंचयाः
पूर्यते च ततश्चापिं कुम्भीपाकं प्रपद्यते
अब्दानां कोटिपर्यन्तं लवणं भुञ्जते हि ते
भज्यन्ते पापकर्मणो ऽन्येप्येवं नराधिप
तत्पसूचीसहस्रेण चक्षुस्तेषां प्रसूर्यते
ततश्च क्रकर्चेर्घोरैर्भिद्यन्ते पापकर्ंमणः
परान्नलोल्लुपानां च नरकं शृणु दारुणम्
नरकेषु समस्तेषु प्रत्येकं ह्यब्दवासिनः
ये च देवलकान्नानां भोजिनस्ताञ्शृणुष्व मे
पच्यन्ते सततं पापाविष्टा भोगरताः सदा
ततः क्षारोदकस्नानं मूत्रविष्टानिषेवणम्
अन्योद्वेगरता ये तु यान्ति वैतरणीं नदीम्
उपासनापरित्यागी रौरवं नरकं व्रजेत्
यातनास्वासु पच्यन्ते वावदाचन्द्रतारकम्
स सहस्रकुलो भुङ्क्तेनरकं कल्पपञ्चसु
स एव कृतवान् राजन्ब्रह्महत्यासहस्रकम्
अयोनौ च वियोनौ च पशुयोनौ च यो नरः
वसाकूपं ततः प्राप्य स्थित्वा दिव्याब्दसत्पकम्
उपवासदिने राजन्दन्तधावनकृन्नरः
यः स्वकर्मपरित्यागी पाषण्डीत्युच्यते बुधैः
कल्पकोटिसहस्रेषु प्रान्पुतो नरकान्क्रमात्
ब्रह्महत्याव्रतसमं दुष्कृतं भुञ्जते नृप
कल्पकोटिसहस्राणि नरके ते वसन्ति च
तेषां पापफलं वक्ष्ये शृणुष्व सुसमाहितः
ध्रूम्रपानरता नित्यं तिष्ठन्त्याब्रह्मवत्सरम्