पूर्णता येन भवतगि व्रतानां पृथिवीपते
नक्तव्रती षड्रसेन ब्राह्मणं भोजयेत्प्रिये
अमांसाशीभवेद्यस्त्तु गां प्रदद्यात्सदक्षिणाम्
फलानां नियमे सुभ्रु फलदानं समाचरेत्
धान्यानां नियमे शालींस्तत्तद्धान्यमथापि वा
पत्रभोजी नरोदद्याद्भाजनं घृतसंयुतम्
दंपत्योर्भोजनं कार्यमुभयोः शयनान्वितम्
प्रातः स्नाने हयं दद्यान्निःस्नेहे घृतसक्तुकान्
उपानहौ प्रदद्यात्तु पादत्राणविवर्जने
आमिषस्य परित्यागे सवत्सां कपिलां ददेत्
स काञ्चनं तथा ताम्रं सघृतं दीपकं प्रिये
एकान्तरोपवासी तु क्षौमवस्त्रं प्रदापयेत्
षड्ररात्राद्युपवासेषु शिबिकां छत्रसंयुताम्
अजाविकं त्वेकभक्ते फलाहारे सुवर्णकम्
रसानां चैव सर्वेषां त्यागे ऽनुक्तस्य वापि च
यथोक्तस्याप्रदाने तु यथोक्ताकरणे ऽपि वा
वृथा विप्रवचो यस्तु मन्यते मनुजः शुभे
व्रतवैकल्यमासाद्य कुष्ठी चान्धः प्रजायते
को लङ्घयेत्सुभ्रु वचो हि तेषां श्रेयोभिकामो मनुजस्तु विद्वान्
प्रकाशितं तुभ्यमनन्यवाच्यं फलप्रदं माधवतुष्टिहेतुम्
व्रतादिकरणं राज्ञां नोक्तं क्वापि निदर्शने
दानं हि पालनं युद्धं तृतीयं भूभुजां स्मृतम्
मुहूर्तमपि राजेन्द्र न शक्नोमि त्वया विना
यत्रोपवासकरणं मन्यसे वसाधाधिप
एवमुक्ते तु वचने मोहिन्या रुक्मभूषणः
आहूता तत्क्षणात्प्राप्ता राजानं भूरिदक्षिणम्
संघृष्टं हि कुचाग्रेण स्वर्णकुंभनिभेन हि
कृतां जलिपुटा भूत्वा भर्तुर्नमितकन्धरा
तव वाक्ये स्थिता कान्त दुःसापत्न्यविवर्जिता
तथा तथा मम प्रीतिर्वर्द्धते नात्र संशयः