मात्स्यं मांसं न भुञ्जीत न कौर्मं नापि हारिणम्
कार्तिकः सर्वपापघ्नः किञ्चिद्व्रतधरस्य हि
तस्मात्सर्वप्रयत्नेन दीक्षां कुर्वीत कार्तिके
पशुयोनिमवाप्नोति दीक्षया रहितो नरः
तीर्थे हि कार्तिकीं कुर्वन्नरो याति हरेः पदम्
प्रातर्दत्वा शुभान्कुंभान्प्रयाति हरिमन्दिरम्
विवाहा यत्र दृश्यन्ते विष्णोर्नाभिसरोरुहे
विनोत्तरायणे कालं लग्नशुद्धिं विनापि च
तस्मान्मोहिनि कर्तास्मि कार्तिके व्रतसेवनम्
अहो माहात्म्यमतुलं कार्तिकस्य त्वयोरितम्
पूर्णता येन भवतगि व्रतानां पृथिवीपते
नक्तव्रती षड्रसेन ब्राह्मणं भोजयेत्प्रिये
अमांसाशीभवेद्यस्त्तु गां प्रदद्यात्सदक्षिणाम्
फलानां नियमे सुभ्रु फलदानं समाचरेत्
धान्यानां नियमे शालींस्तत्तद्धान्यमथापि वा
पत्रभोजी नरोदद्याद्भाजनं घृतसंयुतम्
दंपत्योर्भोजनं कार्यमुभयोः शयनान्वितम्
प्रातः स्नाने हयं दद्यान्निःस्नेहे घृतसक्तुकान्
उपानहौ प्रदद्यात्तु पादत्राणविवर्जने
आमिषस्य परित्यागे सवत्सां कपिलां ददेत्
स काञ्चनं तथा ताम्रं सघृतं दीपकं प्रिये
एकान्तरोपवासी तु क्षौमवस्त्रं प्रदापयेत्
षड्ररात्राद्युपवासेषु शिबिकां छत्रसंयुताम्
अजाविकं त्वेकभक्ते फलाहारे सुवर्णकम्
रसानां चैव सर्वेषां त्यागे ऽनुक्तस्य वापि च
यथोक्तस्याप्रदाने तु यथोक्ताकरणे ऽपि वा
वृथा विप्रवचो यस्तु मन्यते मनुजः शुभे
व्रतवैकल्यमासाद्य कुष्ठी चान्धः प्रजायते
को लङ्घयेत्सुभ्रु वचो हि तेषां श्रेयोभिकामो मनुजस्तु विद्वान्
प्रकाशितं तुभ्यमनन्यवाच्यं फलप्रदं माधवतुष्टिहेतुम्