अतिप्रमुग्धो राजेन्द्रो मोहिनीं वाक्यमब्रवीत्
तवापमानभीतेन नोक्तं किञ्चिदपि क्वचित्
त्वय्यासक्तस्य मे देवि बहवः कार्तिका गताः
सो ऽहं कार्तिकमिच्छामि व्रते न पर्य्युपासितुम्
इष्टापूर्तौ वृथा तेषां धर्मो द्रुहिणसंभवे
ते भांसं कार्तिके त्यक्त्वा गता विष्ण्वालयं शुभे
अवश्यं विष्णुरूपत्वं प्राप्यते साधकेन हि
हृदयायासकर्तॄणि दीपदानाद्दिवं व्रजेत्
कर्तव्यं भक्तिभावेन सर्वदानाधिकं च तत्
कार्तिकेन समं प्रोक्तं दीपदानात्प्रबोधनम्
कार्तिकीं च तिथिं कृत्वा विष्णोर्नाभिसरोरुहे
व्रतोपवासनियमैः कार्तिको यस्य गच्छति
तस्मान्मोहिनि मोहं त्वं परित्यज्य ममोपरि
तव वक्षोजपूजाया विरतो नीरजेक्षमे
विस्तरेण समाख्याहि माहात्म्यं कार्तिकस्य च
विशेषात्कुत्र कथितस्तदादिश महामते
श्रुत्वा कार्त्तिकमाहात्म्यं करिष्ये ऽहं यथेप्सितम्
येन भक्तिर्भवित्री ते प्रकर्तुं हरिपूजनम्
एकान्तरोपवासी वा त्रिरात्रोपोषितो ऽपि वा
क्षपयित्वा नरो याति स विष्णोः परमं पदम्
अस्मिन् नरैर्धरा चैव प्राप्यते द्वीपमालिनी
मासो ऽयं भक्तिदः प्रोक्तो व्रतदानार्चनादिभिः
प्रबोधिनीं नरः कृत्वा जागरेण समन्विताम्
तस्मिन्दिने वरारोहे मण्डलं यस्तु पश्यति
कार्तिके मण्डलं दृष्ट्वा शौकरेः सूकरं शुभे
त्रिविधस्यापि पापस्य दृष्ट्वा मुक्तिर्भवेन्नृणाम्
कार्तिके वर्जयेत्तैलं कार्त्तिके वर्जयेन्मधु
निष्पावान्कार्तिके देवि त्यञ्जेद्विष्णुतत्परः
प्राप्नोति राजकीं योनिं सकृद्भक्षणसंभवात्
षष्टिवर्षसहस्राणि रौरवे परिपच्यते