ऋत्विग्वा शास्त्रहीनश्च मा मे राज्ये वसेदिह
निर्वास्यौ तावुभौ पापौ यो वै मद्यं करोति च
तस्य वासो न मे राज्ये स्वकलत्रं त्यजेच्च यः
गच्छेत्सगर्भां युवतीं प्रसूतां दण्ड्यश्च वध्यश्च स चास्मदीयैः
पितुर्ननियोगाद्राजेन्द्र पालयन् हरिवासरम्
नासुखी नाप्रजः कश्चिन्न वा फुष्ठी महीपते
घटदोग्ध्रीषु नृपते तृप्तवत्सासु धेनुषु
प्रहृष्टायां तु मेदिन्यां सर्वधान्यसमुद्भवः
व्यतीते जलदापाये निर्मले चांबरे गृहे
मध्यप्रवाहयुक्तासु निम्नगासु समन्ततः
चन्द्रांशुधवले लोके नातितीव्रे दिवाकरे
यत्रोत्सुकैः प्रयातैस्तु भूमिपालैः समन्ततः
मोहिनी रमयामास तत्काले हृच्छयार्दिता
वनेषु गिरिशृङ्गेषु नदीनां संगमेषु च
मलये मन्दरे विन्ध्ये महेन्द्रे विबुधालये
अन्येषु चैव राजानं स्वर्गस्थानादिकेषु च
राजापि मोहिनीं प्राप्य सर्वं कृत्यं परित्यजन्
व्रतं नोपेक्षते तत्तु अतिमुग्धो ऽपि पार्थिवः
एवं प्रकीडतस्तस्य पूर्णे संवत्सरे गते
निद्राछेदकरो विष्णोः स मासः पुण्यदायकः
अक्षयं हि भवेत्सर्वं विष्णुलोकप्रदायकम्
न धर्मस्तु दया तुल्यो न ज्योतिश्चक्षुषा समम्
न भूम्या सदृशं दानं न सुखं भार्यया समम्
न तपो ऽनशनादन्यन्न दमेन समं शिवम्
न धर्मेण समं मित्रं न सत्येन समं यशः
न कार्तिकसमं लोके पावनं कवयो विदुः
अव्रतो हि क्षिपेद्यस्तु मासं दामोदरप्रियम्
तिर्यग्योनिमवाप्नोति सर्वधर्मबहिष्कृतः
मोहिनीं मोहसंयुक्तां कथं स बुभुजे वद
तस्मिन्पुण्यतमे मासे किं चकार नृपोत्तमः