व्यसर्जयत्ततः पुत्रं राज्यतन्त्रावलोकने
राज्यतन्त्रं तदखिलं चक्रे पितृवचः स्थितः
अटनं सर्वदेशेषु वीक्षणं सर्वकर्मणाम्
हस्त्यश्वपोषणं चक्रे चारचक्रेक्षणं तथा
गृहे गृहे नराणां च चक्रे संरक्षणं नृपः
श्वश्रूर्वध्वा न कुत्रापि प्ररोदित्यवमानिता
न वर्णसंकरो राज्ये केषाञ्चिदभवत्पुनः
न कञ्चुकविहीना तु भवेन्नारी सभर्तृका
मा सकेशा हि विधवा मास्त्वकेशा मभर्तृका
सामान्यवृत्त्यदाता मे राज्ये ऽवसतु निर्घृणः
ऋत्विग्वा शास्त्रहीनश्च मा मे राज्ये वसेदिह
निर्वास्यौ तावुभौ पापौ यो वै मद्यं करोति च
तस्य वासो न मे राज्ये स्वकलत्रं त्यजेच्च यः
गच्छेत्सगर्भां युवतीं प्रसूतां दण्ड्यश्च वध्यश्च स चास्मदीयैः
पितुर्ननियोगाद्राजेन्द्र पालयन् हरिवासरम्
नासुखी नाप्रजः कश्चिन्न वा फुष्ठी महीपते
घटदोग्ध्रीषु नृपते तृप्तवत्सासु धेनुषु
प्रहृष्टायां तु मेदिन्यां सर्वधान्यसमुद्भवः
व्यतीते जलदापाये निर्मले चांबरे गृहे
मध्यप्रवाहयुक्तासु निम्नगासु समन्ततः
चन्द्रांशुधवले लोके नातितीव्रे दिवाकरे
यत्रोत्सुकैः प्रयातैस्तु भूमिपालैः समन्ततः
मोहिनी रमयामास तत्काले हृच्छयार्दिता
वनेषु गिरिशृङ्गेषु नदीनां संगमेषु च
मलये मन्दरे विन्ध्ये महेन्द्रे विबुधालये
अन्येषु चैव राजानं स्वर्गस्थानादिकेषु च
राजापि मोहिनीं प्राप्य सर्वं कृत्यं परित्यजन्
व्रतं नोपेक्षते तत्तु अतिमुग्धो ऽपि पार्थिवः
एवं प्रकीडतस्तस्य पूर्णे संवत्सरे गते
निद्राछेदकरो विष्णोः स मासः पुण्यदायकः