तथैव सर्वसिद्धीनां भक्तिः परमकारणम्
तथा समस्तसिद्धीनां जीवनं भक्तिरिष्यते
तथा भक्तिं समाश्रित्य सर्वकार्य्याणि साधयेत्
श्रद्धया साध्यते कामः श्रद्धावान्मोक्षमान्पुयात्
भक्तिहीनेर्मुनिश्चेष्ठ तुष्यते भगवान्हरिः
दत्ता चाप्यर्थनाशाय यतोभक्तिविवर्जिता
अभक्त्या यद्धुतं हव्यं भस्मनि न्यस्तहव्यवत्
तन्नाम जायते पुंसां शाश्वतं प्रतीदायकम्
तत्सर्वं निष्फलं ब्रह्मन्यदि भक्तिविवर्जितम्
तस्यां सत्यां पिबन्त्यज्ञाः संसारगरलं ह्यहो
भगवद्भक्तसङ्गश्च हरिभक्तिस्तितिक्षुता
अवेहि निष्फलं ब्रहंस्तेषां दूरतरो हरिः
मृषा तु कुर्वतां कर्म तेषां दूरतरो हरिः
धर्मेष्वभक्तिमनसां तेषां दूरतरो हरिः
तत्राश्रद्धापरा ये तु तेषां दूरतरो हरिः
स लोहकारभस्त्रेव श्वसन्नपि न जीवति
श्रद्धावतां हि सिध्यन्ति नान्यथा ब्रह्मनन्दना
स याति विष्णुभवनं यद्वै पश्यन्ति सूरयः
हरिध्यानपरोयस्तु स याति परमं पदम्
आश्रमाचारयुक्तेन पूजितः सर्वदा हरिः
स एव पतितो ज्ञेयो यतः कर्मबहिष्कृतः
भ्रष्टो यः स्वाश्रमाचारात्पतितः सो ऽभिधीयते
आचारात्पतितं मूढं न पुनाति द्विजोत्तम
यज्ञो वा विविधो ब्रह्मंस्त्यक्ताचारंन रक्षति
आचारात्प्राप्यते मोक्ष आचारात्किं न लभ्यते
हरिभक्तेपरि तथा निदानं भक्तिरिष्यते
तस्मात्समस्तलोकानां भक्तिर्मातेति गीयते
तथा भक्तिं समाश्रित्य सर्वे जीवन्ति धार्ंमिकाः
न तस्य त्रिषु लोकेषु सदृशो ऽस्त्यजनन्दन
तस्मिंस्तुष्टे भवेज्ज्ञानं ज्ञानान्मोक्षमवाप्यते