शेषं दानवनारीभिर्बहुरत्नसमन्वितम्
संविभज्य पिता वित्तं धर्माङ्गदसमाहृतम्
सर्वासां मत्सुतो ब्रह्मन्पाणीन्गृह्णातु धर्मतः
वैवाह्यलग्ने नक्षत्रे मुहूर्ते सर्वकामदे
विवाहं कुरु पुत्रस्य मम धर्माङ्गदस्य वै
सस मज्जेन्नरके घोरे ह्यप्रतिष्ठे युगायुतम्
आत्मा संस्थापितस्तेन येन संस्थापितः सुतः
पुत्रस्य गुणयुक्तस्य निर्गुणस्यापि भूसुर
यो न दारैश्च वित्तैश्च पुत्रान्संयोजयेत्पिता
तस्माद्वृत्तियुताः कार्याः पुत्रा दारैः समन्विताः
तच्छ्रुत्वा वचनं राज्ञो द्विजस्तस्य पुरोहितः
स युवानिच्छमानो ऽपि स्त्रीसौख्यं लज्जाया सुतः
वरुणात्मजया सार्द्धं नागकन्या मनोहराः
उद्वाहयित्वा सर्वास्ता विधिदृष्टेन कर्मणा
कृतदारो ववन्दे ऽथ पादान्मातुः पितुर्मुदा
पितुर्वाक्येन मे देवि संजातो दारसंग्रहः
अव्ययं पितरं विज्ञं देवि शुश्रूषये ह्यहम्
कार्या मे पितृशुश्रूषा तव चैव दिवानिशम्
पितुः प्रसादाद्दीर्घोयुर्मनो नन्दय मे सुत
सपत्नीनां च सर्वासां हृदये संस्थिता ह्यहम्
व्यसर्जयत्ततः पुत्रं राज्यतन्त्रावलोकने
राज्यतन्त्रं तदखिलं चक्रे पितृवचः स्थितः
अटनं सर्वदेशेषु वीक्षणं सर्वकर्मणाम्
हस्त्यश्वपोषणं चक्रे चारचक्रेक्षणं तथा
गृहे गृहे नराणां च चक्रे संरक्षणं नृपः
श्वश्रूर्वध्वा न कुत्रापि प्ररोदित्यवमानिता
न वर्णसंकरो राज्ये केषाञ्चिदभवत्पुनः
न कञ्चुकविहीना तु भवेन्नारी सभर्तृका
मा सकेशा हि विधवा मास्त्वकेशा मभर्तृका
सामान्यवृत्त्यदाता मे राज्ये ऽवसतु निर्घृणः