दशकोट्यस्तु रत्नानां दीपकर्म निशागमे
ततो ऽहं वारुणं लोकं रसातलतलस्थितम्
तत्रोक्तो वरुणो देवः स्थीयतां मत्पिन्तुर्वशे
कुपितो मम वाक्येन वरुणो योद्धुमागतः
जितो नारायणास्त्रेण मया स जलनायकः
निर्जितेनायुतं दत्तं वाजिनां वातरंहसाम्
तृणतोयविहीना ये जीवन्ति बहुशः समाः
भार्यार्थे वरुणः प्रादात्साप्यानीता मया शुभा
तन्निस्ति त्रिषु लोकेषु स्थानं तात सुदुर्गमम्
तदुत्तिष्ठ परीक्षस्व त्वत्प्रसादार्जितां श्रियम्
यः पुत्रस्तात वदति मया लक्ष्मीः समर्जिता
आत्मसंभावनं तात न कर्तव्यं सुतेन हि
पितुः शौर्येण पुत्रस्य वर्द्धते धनसंचयः
वायुना पूरितं वस्त्रं तारयेन्नौगतं जले
तथाहि पितृवीर्येण पुत्रास्तेजोबलान्विताः
आत्मेच्छया यच्छतु रक्षताद्वा स्वसंपदो मातृसमूहवर्याः
सा चापि मोहिनी ब्रह्मन्प्रिया राज्ञो विधेः सुता
विशेषतस्त्वया पुण्यं सर्वसंदेहभञ्जनम्
उदतिष्ठत्प्रियायुक्तस्ताः श्रियश्चावलोकयत्
नागकन्यास्तु ताः सर्वा वारुणीसहिता मुदा
शेषं दानवनारीभिर्बहुरत्नसमन्वितम्
संविभज्य पिता वित्तं धर्माङ्गदसमाहृतम्
सर्वासां मत्सुतो ब्रह्मन्पाणीन्गृह्णातु धर्मतः
वैवाह्यलग्ने नक्षत्रे मुहूर्ते सर्वकामदे
विवाहं कुरु पुत्रस्य मम धर्माङ्गदस्य वै
सस मज्जेन्नरके घोरे ह्यप्रतिष्ठे युगायुतम्
आत्मा संस्थापितस्तेन येन संस्थापितः सुतः
पुत्रस्य गुणयुक्तस्य निर्गुणस्यापि भूसुर
यो न दारैश्च वित्तैश्च पुत्रान्संयोजयेत्पिता
तस्माद्वृत्तियुताः कार्याः पुत्रा दारैः समन्विताः