मृगेन्द्रशत्रोःकरसन्निकाशे जङ्घे विलोमे द्रुतकाञ्चनाभे
आपादशीर्षं किल तत्स्वरूपं संपश्यतच्चारुविशालनेत्र्याः
अहो सुतन्वी विपुलेक्षणेयं याचिष्यते यच्च तदेव देयम्
सुदुर्लभं देयमदेयमन्यैर्दास्यामि चास्या यदि वाप्यदेयम्
दास्यामि चेदं न विचारयिष्ये पुत्रं विना नास्ति नदेयमस्याः
त्रीणि पञ्च च वर्षाणि व्यतीतानि सुखेन वै
जित्वा विद्याधरान्पञ्च मलये पर्वतोत्तमे
एकं काञ्चनदातारं कोटिकोटिगुणं शुभम्
तृतीयममृतस्रावि पुनर्यौवनकारकम्
पञ्चमं व्योभगतिदं त्रैलोक्यपरिसर्पणम्
स्त्रीभिर्विद्याधराणां च साश्रुनेत्राभिरावृतः
मणीन्पञ्च समर्प्याथ पादयोः प्राह संनतः
मलये भूधरश्रेष्ठे वैष्णवास्त्रेण भूपते
मणीन्प्रयच्छ मोहिन्यै भुजभूषणहेतवे
जीर्णदन्ताः पुनर्बाला भवन्ति मणिधारणात्
दातारो मासयुद्धेन साधितास्तव तेजसा
करदानिसमस्तानि कृतानि तव तेजसा
जिता भोगवती तात मया नागसमावृता
तत्रापि हाररत्नानि सुबहून्याहृतानि च
तान्निर्जित्यं च कन्यानां सुरूपाणां सुवर्चसाम्
दशकोट्यस्तु रत्नानां दीपकर्म निशागमे
ततो ऽहं वारुणं लोकं रसातलतलस्थितम्
तत्रोक्तो वरुणो देवः स्थीयतां मत्पिन्तुर्वशे
कुपितो मम वाक्येन वरुणो योद्धुमागतः
जितो नारायणास्त्रेण मया स जलनायकः
निर्जितेनायुतं दत्तं वाजिनां वातरंहसाम्
तृणतोयविहीना ये जीवन्ति बहुशः समाः
भार्यार्थे वरुणः प्रादात्साप्यानीता मया शुभा
तन्निस्ति त्रिषु लोकेषु स्थानं तात सुदुर्गमम्
तदुत्तिष्ठ परीक्षस्व त्वत्प्रसादार्जितां श्रियम्