प्रहर्षमतुलं लेभे धर्माङ्गदमुवाच ह
कृत्वा दुष्टवधं त्वादावप्रमत्तः सदोद्यतः
सदा चेतनसंयुक्तः सदा वाणिज्यवल्लभः
सदा कौटिल्यहीनश्च सदाचाररतः सदा
अविश्वासस्तु सर्वत्र भूमिपानां प्रशस्यते
रसवद्द्रव्यमाकर्षेः पुष्पेभ्य इव षट्पदः
त्वया पुत्रेण संप्राप्तं पुनरेवेह यौवनम्
सुखेन संयोज्य च ते ऽद्य भारं सप्तोदधिद्वीपभवं प्ररंस्ये
भवेत्पिता चेद्ब्रलिभिश्च युक्तो जीर्णद्विजः श्वेतशिरोरुहश्च
संत्यज्य देवान्मम हेतुमागतामनङ्गबाणाभिहतां सुनेत्राम्
भूत्वा तु गुप्तो वननिर्झरेषु रम्येषु दिव्येषु नदीतटेषु
अस्यास्तु हेतोर्विबुधा विमूढा यथा रमायै धरणीशसंघाः
नृपोत्तमं तं नृपनन्दनो ऽसौ दिदेश भोगार्थमनेकवित्तम्
मत्स्यध्वजार्त्तस्य सुखाय पुत्रस्ततो महीरक्षणमाचचार
तस्येत्थमुर्वीं चरतश्च भूप न पापबुद्धिं कुरुते जनैघः
स्रवन्ति गावो घटपूरदुग्धं घृताधिकं शर्करवत्सुमिष्टम्
जनो न कश्चिद्विभवस्य गोप्ता भर्तुहिं भार्या न कटूक्तिवादिनी
द्विजोपदेशे हि जनो व्यवस्थितो वेदोक्तधर्माचरणाद्द्विजोत्तमाः
संभुज्य माना नहि यान्ति संपदः संभोगयुक्तैरपि मानवैः क्षयम्
कृती च लोको ह्यभवत्समस्तो धर्माङ्गदे पालनसंप्रवृत्ते
द्वाराणि सध्वान्तनिशासु भूप गुप्तानि कुर्वन्ति न दस्यु भीताः
क्षीरं क्षरन्त्यो घटवत्सुभूरिशो वत्सप्रियाः शान्तिकराश्च गावः
मातुः पयोभिः शिशवः सुपुष्टा भर्तुः प्रयोगैः प्रमदाः सुपुष्टाः
संरक्ष्यमाणे हि नृपात्मजेन जगाम कालः सुखहे तुभूतः
पृथ्वीपतिश्चातिविमोहितश्च विमोहिनीचेष्टितसौख्ययुक्तः
अतीव मुग्धः सुरतेन तस्या विरञ्चिपुत्र्याः शुभचेष्टितायाः पक्षेषु शुक्लेष्विव शीतभानुर्न क्षीयते संततसेवनेन
पिबंस्तु पानं सुमनोहरं हि शृण्वंस्तु गीतं सुपदप्रयुक्तम्
विमर्द्दमानस्तु करेण तुङ्गौ सुखेन पीनौ पिशितोपरूढौ
वलित्रयं नातिविवर्द्धमानं मनोहरं लोमशराजिशोभम्
नहीदृशं चारुतरं नितान्तं नितंबिनीनां मनसो ऽभिरामम्