तस्माद्विजस्तान्नेक्षेत यतो धर्मबहिष्कृताः
ज्ञात्वा चेन्निष्कृतिर्नास्ति शास्त्राणामिति निश्वयः
प्रायश्चित्तविहीनानि प्रोक्तान्यन्यानि च प्रभो
पापानि तेषां नरकान्गदतो मे निशामय
तदन्ते पृथिवीमेत्य सत्पजन्मसु गर्दभाः
आशताब्दं विट्कृमयः सर्पा द्वादशजन्मसु
शताब्दं स्थावराश्चैव ततो गोधाशरीरिणः
ततः षोडश जन्मानि शूद्राद्या हीनजातयः
प्रतिग्रहपरा नित्यं ततो निरयगाः पुनः
तत्र कल्पद्वयं स्थित्वा चाण्डालाः शतजन्मसु
शुनां योनिशतं गत्वा चाण्डालेषूपजायते
तदन्ते नरकं याति युगानामेकविंशतिम्
दानानां विन्घकर्त्तारस्तेषां पापफलं शृणु
तदन्ते तत्पपाषाणग्रहणं वत्सरत्रघयम्
शोचन्तः स्वृनिकर्माणि परद्रव्यापहारकाः
कर्मणा तत्र पच्यन्ते नरकान्गिषु सन्ततम्
यावद्युगसहस्रं तु तत्पायः पिण्डभक्षणम्
निरुच्छ्वासं महाघोरे कल्पार्द्धं निवसन्ति ते
तत्पताम्रस्त्रियस्तेन सुरुपाभरणैर्युताः
विद्ववन्तं भयेनासां गृह्णन्ति प्रसभं च तम्
अन्यं भजन्ते भूपाल पतिं त्यक्त्वा च याः स्त्रियः
पातयित्वा रमन्ते च बहुकालं बलान्विताः
अ यः स्तम्भं समाश्सिष्य तिष्ठन्त्यब्दसहस्रकम्
तदन्ते नरकान् सर्वान् भुञ्जते ऽब्दशतं शतम्
स चापि यातनाः सर्वा भुङ्क्ते कल्पेषु पञ्चसु
तेषां कर्णेषु दाप्यन्ते तत्पायः कीलसंचयाः
पूर्यते च ततश्चापिं कुम्भीपाकं प्रपद्यते
अब्दानां कोटिपर्यन्तं लवणं भुञ्जते हि ते
भज्यन्ते पापकर्मणो ऽन्येप्येवं नराधिप
तत्पसूचीसहस्रेण चक्षुस्तेषां प्रसूर्यते