कर्मणा मनसा वाचा या पितुर्दुःखमाचरेत्
सर्वासां साधिका देवी मोहिनी जनकप्रिया
तत्पुत्रवचनं श्रुत्वा वेपमाना हि मातरः
अवश्यं तव वाक्यं हि कर्तव्यं न्यायसंयुतम्
यो भार्यामुद्वहेद्भर्ता द्वितीयामपरामपि
अनुज्ञाप्य यदा भार्ता ज्येष्ठामन्यां समुद्वहेतक्
ज्येष्ठया सहितः कुर्यादिष्टापूर्तं नरोत्तमः
श्रुत्वा तु मातृवचनं प्रहष्टेनान्तरात्मनो
सहस्रं नगराणां च ग्रामाणां प्रददौ तथा
एकैकस्य ददावष्टौ रथान्काञ्चनमालिनः
शुद्धस्य मेरुजातस्य अक्षयस्य नुपात्मजः
दासानां च शतं साग्रं दासीनां च नृपात्मजः
युगन्धराणां भद्राणां शतानि दश वै पृथक्
वाटीनां तु सहस्राणां शतं प्रादाद्धसन्निव
अजाविकमसंख्यातमेकैकस्यै न्यवेदयत्
आखण्डलास्त्रयुक्तरथ भूषणस्य सुभक्तिमान्
प्रददौ संहतान्कृत्वा वलयान्पञ्च सप्त च
संध्यावल्यां स्थितानीह शीतांशुप्रतिमानि च
कुङ्कुमं चन्दनं भूरि कर्पूरं प्रस्थसंख्यया
मातॄणामविशेषेण पितुः सुखमभीप्सयन्
घृतक्षीरस्य पात्राणि पेयस्य विविधस्य च
स्थालीनां काञ्चनीनां हि सकुंभानां नृपात्मजः
करेणूनां सवेगानां मांसविक्रान्तकन्धराम्
शिबिकानां सवेषाणां पुंसां पीवरगामिनाम्
एवं दत्वा बहुधनं बह्वीभ्यो नृपनन्दनः
कृताञ्जलिपुटो भूत्वा इदं वचनमब्रवीत्
ब्रुवन्तु सर्वाः पितरं ममाद्य स्वैरेण संभुङ्क्ष्व नरेशं मोहिनीम्
विमोहिनीं ब्रह्मसुतां सुशीलां रमस्व सौख्येन रहः शतानि
स्वभूदुहित्रा सुचिरं रमस्व विदेहपुत्र्येव रघुप्रवीरः
पुत्रौजसा दुःखविमुक्तभावात्समीरितं वाक्यमिदं प्रतीहि