आत्मना सह खेलार्थं तन्मोदध्वं सुहर्षिताः
को हि दीपयते वह्निं स्वदेहे देहिनां वर
कस्तरेत्सागरं बद्ध्वा ग्रीवायां दारुणां शिलाम्
को निषीदति धारायां खङ्गस्या काशभासिनः
सर्वस्यापि प्रदानेन नैतन्मनसि वर्तते
का दृष्ट्या दयितं कान्तं निरीक्षेदन्ययाहृतम्
आत्मप्राणसमं कान्तमन्यस्त्रीकुचपीडनम्
सर्वेषामेव दुःखानां दुःखमेतदनन्तकम्
वरं सर्वा मृताः पुत्र युगपन्मातरस्तव
यदि मे न पितुः सौख्यं करिष्यथ शुभाननाः
कर्मणा मनसा वाचा या पितुर्दुःखमाचरेत्
सर्वासां साधिका देवी मोहिनी जनकप्रिया
तत्पुत्रवचनं श्रुत्वा वेपमाना हि मातरः
अवश्यं तव वाक्यं हि कर्तव्यं न्यायसंयुतम्
यो भार्यामुद्वहेद्भर्ता द्वितीयामपरामपि
अनुज्ञाप्य यदा भार्ता ज्येष्ठामन्यां समुद्वहेतक्
ज्येष्ठया सहितः कुर्यादिष्टापूर्तं नरोत्तमः
श्रुत्वा तु मातृवचनं प्रहष्टेनान्तरात्मनो
सहस्रं नगराणां च ग्रामाणां प्रददौ तथा
एकैकस्य ददावष्टौ रथान्काञ्चनमालिनः
शुद्धस्य मेरुजातस्य अक्षयस्य नुपात्मजः
दासानां च शतं साग्रं दासीनां च नृपात्मजः
युगन्धराणां भद्राणां शतानि दश वै पृथक्
वाटीनां तु सहस्राणां शतं प्रादाद्धसन्निव
अजाविकमसंख्यातमेकैकस्यै न्यवेदयत्
आखण्डलास्त्रयुक्तरथ भूषणस्य सुभक्तिमान्
प्रददौ संहतान्कृत्वा वलयान्पञ्च सप्त च
संध्यावल्यां स्थितानीह शीतांशुप्रतिमानि च
कुङ्कुमं चन्दनं भूरि कर्पूरं प्रस्थसंख्यया
मातॄणामविशेषेण पितुः सुखमभीप्सयन्