नोद्यमी सुखमाप्नोति नाभार्यः संततिं लभेत्
अपृच्छन्नैव जानाति अगच्छन्न क्वचिद्व्रजेत्
कस्माद्भूपाल मां त्यक्त्वा धर्माङ्गदगृहे शुभे
वीक्ष्यसे राज्यपदवीं समर्थे तनये विभो
व्रीडान्वितः पुत्रसमीपवर्ती प्रोवाच वाक्यं नृपतिः प्रियान्ताम्
श्रमातुरस्य निद्रा मे प्रवृत्ता मुखदायिनी
पूजयस्व यथान्या ममेषा पत्नी प्रिया मम
निर्वातवातसंयुक्तं सर्वर्तुसुखदायकम्
शयनं प्राप्य कष्टात्ते अभाग्यो हि धनं यथा
यद्व्रवीषि वचो देवि तत्करोमि न संशयः
ममोद्वाहेन निर्विण्णान्निराशान्कामभोगयोः
मूर्घ्नि कीलं कनिष्ठाख्यं यो हि राजन्निखानयेत्
पतिव्रताश्रुदग्धायाः का शान्तिर्मे भविष्यति
किं पुनः प्राकृतं भूप त्वादृशीं तथा
तव स्नेहनिबद्धाङ्गी संभोजयति षड्रसैः
एवंविधा हि शतशो नार्यः संति गृहे तव
मोहिनी वचनं श्रुत्वा व्रीडितो ह्यभवन्नृपः
इङ्गितज्ञः सुतो ज्ञात्वा दशावस्थागतां नृपम्
मातृः सर्वाः समाहूय संध्यावलिपुरोगमाः
विमोहिनी मे जननी नवोढा ब्राह्मणः सुता
आत्मना सह खेलार्थं तन्मोदध्वं सुहर्षिताः
को हि दीपयते वह्निं स्वदेहे देहिनां वर
कस्तरेत्सागरं बद्ध्वा ग्रीवायां दारुणां शिलाम्
को निषीदति धारायां खङ्गस्या काशभासिनः
सर्वस्यापि प्रदानेन नैतन्मनसि वर्तते
का दृष्ट्या दयितं कान्तं निरीक्षेदन्ययाहृतम्
आत्मप्राणसमं कान्तमन्यस्त्रीकुचपीडनम्
सर्वेषामेव दुःखानां दुःखमेतदनन्तकम्
वरं सर्वा मृताः पुत्र युगपन्मातरस्तव
यदि मे न पितुः सौख्यं करिष्यथ शुभाननाः