तावत्प्रणम्य नृपतेः पुत्रो वचनमब्रवीत्
तव भर्तुः प्रसादेन वृद्धिं संप्राप्तवानहम्
अस्याः पीतं पयो भूरि कुचयोः स्नेहसंप्लुतम्
इयं मां जनयित्वैव जाता शिथिलबन्धना
मातुः पुत्रस्य चार्वङ्गि सत्यमेतन्मयेरितम्
उत्संगे वर्तयिष्यामि मातृसंघस्य नित्यशः
मातृसौख्यं न जानाति कुमारी भर्तृजं यथा
हारमुत्तमदेहस्थं हस्तेनाहर्तुमिच्छति
समीहते जगद्धर्तुं सवीर्यं मातृजं पयः
अस्याश्चैवापराणां च विशेषो यदि मे न चेत्
एवं ब्रुवाणे तनये मोहिनी विस्मयं गता
विनीतस्य ह्यपापस्य औचित्यं पापिनो गृहे
एवं गुणाधिकस्याहं कर्तुं कर्म जुगुप्सिताम्
एवं विमृश्य बहुधा मोहिनी लोकसुंदरी
न शक्नोमि विना तेन मुहूर्तमपि वर्तितुम्
कनिष्ठा जननी तात शीघ्रं त्वां द्रष्टुमिच्छति
पुत्रवाक्येन नृपतिरतत्क्षणाद्गन्तुमुद्यतः
संप्रविश्य गृहे राजा ददर्श शयनस्थिताम्
उपास्य मानां प्रियया संध्यावल्या शनैः शनैः
दृष्ट्वा रुक्माङ्गदं प्राप्तं शयने मोह्य सुंदरी
इहोपविश्यतां कान्त पर्यङ्के मृदुतूलके
अद्यापि नहि ते वाञ्छा राज्ये परिनिवर्तते
यः समर्थं सुतं ज्ञात्वा स्वयं पश्येन्नृपश्रियम्
सुपुत्राणां पितॄणां हि सुखं याति क्षणं नृप
सर्वाश्च प्रकृती राजंस्तवेष्टाः पूर्णपुण्यजाः
परित्यज्य प्रियासौख्यं कीनाश इव दुर्बलः
निष्प्रयोजनमानीता क्षीरसागरमस्तकात्
यो भार्यां यौवनोपेतां न सेवेदिह दुर्मतिः
असेविता व्रजेद्भार्या अदत्तं हि धनं व्रजेत्
नालसैः प्राप्यते विद्या न भार्या व्रतसंस्थितैः