कुरु वाक्यं मयोक्तं हि स्वामिनि त्वं प्रसीद मे
भवेत्पापक्षयः सम्यक् स्वर्गप्राप्तिस्तथाक्षया
अभिमन्त्र्य परिष्वज्य तनयं सा पुनः पुनः
करिष्ये वचनं पुत्र त्वदीयं धर्मसंयुतम्
शतपुत्रा ह्यहं पुत्र त्वयैकेन सुतेन हि
व्रतराजेन चीर्णेन प्राप्तस्त्वमचिरात्सुतः
सद्यः प्रत्ययकारीदं महापातकनाशनम्
वरमेकः कुलालंबी यत्र विश्रमते कुलम्
धन्यानि तानि शूलानि यैर्जातस्त्वं सुतो ऽनघ
आह्लादयति यस्तातं जननीं वापि पुत्रकः
एवमुक्त्वा तु वचनं देवी संध्यावली तदा
तस्या वीक्षणमात्रेण परिपूर्णानि भूपते
अमृतस्वादुकल्पस्य जनस्य तु महीपते
परिवेषयदव्यग्रा मोडिन्याश्चारुहासिनी
शनैः शनैश्च बुभुजे इष्टमन्नं सुसंस्कृतम्
वीज्यमाना वरारोहा व्याजनेन सुगीतिना
सा भुक्ता ब्रह्मतनया तदन्नममृतोपमम्
जगृहे पुत्रदत्तं तु तांबूलं तत्सुगन्धिमत्
ततः प्रहस्य शनकैः प्राह संध्यावलीं नृप
न मया हि परिज्ञाता श्रमस्वेदितया शुभे
तावत्प्रणम्य नृपतेः पुत्रो वचनमब्रवीत्
तव भर्तुः प्रसादेन वृद्धिं संप्राप्तवानहम्
अस्याः पीतं पयो भूरि कुचयोः स्नेहसंप्लुतम्
इयं मां जनयित्वैव जाता शिथिलबन्धना
मातुः पुत्रस्य चार्वङ्गि सत्यमेतन्मयेरितम्
उत्संगे वर्तयिष्यामि मातृसंघस्य नित्यशः
मातृसौख्यं न जानाति कुमारी भर्तृजं यथा
हारमुत्तमदेहस्थं हस्तेनाहर्तुमिच्छति
समीहते जगद्धर्तुं सवीर्यं मातृजं पयः
अस्याश्चैवापराणां च विशेषो यदि मे न चेत्