जगाम सुमहान्कालो वर्तन्त्या दुःखसागरे
अभक्षयत निष्पावं दुर्मेधास्तैलमिश्रितम्
अभवद्दारुणो रोगो गुदे तस्य भगन्दरः
तस्य गेहे स्थितं वित्तं समादाय जगाम सा
ततः स दीनवदनो व्रीडया च समन्वितः
परिपालय मां देवि वेश्यासक्तं सुनिष्ठुरम्
रमते वेश्यया सार्द्धं बहूनब्दान्सुमध्यमे
सो ऽशुभानि समाप्नोति जन्मानि दश पञ्च च
तवापमानतो देवि मनो न कलुषीकृतम्
तानि सक्षमते विद्वान् स विज्ञेयो नृणां वरः
तद्भजन्त्या न मे दुःखं न विषादः कथञ्चन
अनीतं जनकाद्वित्तं बन्धुभ्यो वरवर्णिनी
दिवा दिवा त्रिर्यत्नेन रात्रौ गुह्यविशोधनम्
नखेन पातयेद्भर्तुः क्रिमीन्कुष्ठाच्छनैः शनैः
न देवि रात्रौ स्वपिति न दिवा च वरानना
यद्यस्ति वसुधा देवी पितरो देवतास्तथा
चण्डिकायै प्रदास्यामि रक्तं मांससमुद्भवम्
सादरं कारयिष्यामि उपवासान्दशैव तु
नोपभोक्ष्यामि मधुरं नोपभोक्ष्यामि वै घृतम्
जीवतां रोगहीनो हि भर्ता मे शरदां शतम्
अथ कालेन चाल्पेन त्रिदोषो ऽस्य व्यजायत
शीतार्तः कंपमानो ऽसौ पत्न्यङ्गुलिमखण्डयत्
तत्खण्डमङ्गुलेर्वक्त्रे स्थितं नृपतिवल्लभे
चितां सार्पिर्युतां चक्रे मध्ये धृत्वा पतिं तदा
मुखे सुखं समाधाय हृदये हृदयं तथा
दाहयामास कल्याणी भर्तुर्देहं रुजान्वितम्
आत्मना सह चार्वङ्गी ज्वलिते जातवेदसि
विशोधयित्वा बहुपापसंघान्स्वकर्मणा दुष्करसाधनेन
न मातरीदृशो धर्मो लोकेषु त्रिषु लभ्यते
सपत्नीं तु सपत्नी हि किञ्चिदन्नं ददाति च